SearchBrowseAboutContactDonate
Page Preview
Page 501
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir रसगङ्गाधरः। अथार्थापत्तिःकेनचिदर्थेन तुल्यन्यायत्वादर्थान्तरस्यापत्तिरपत्तिः। न्यायश्च कारणम् । सा च प्रकृतेन प्रकृतस्य, अप्रकृतेनाप्रकृतस्य, प्रकतेनाप्रकृतस्य, अप्रकृतेन प्रकृतस्येति तावच्चतुर्भदा प्रत्येकमर्थान्तरस्य साम्यन्यूनाधिक्यै‘दशविधा । ततो भावत्वाभावत्वाभ्यां चतुर्विशतिभेदा । दिङ्मात्रेणोदाहियते-- 'लीलालुण्ठितशारदापुरधियामस्मादृशानां पुरो विद्यासद्मविनिर्गलकणमुषो वल्गन्ति चेद्वालिशाः। अद्य श्वः फणिनां शकुन्तशिशवो दन्तावलानां शशाः __ सिंहानां च सुखेन मूर्धनि पदं धास्यन्ति सालाकाः ॥' अत्र प्रकृतेनाप्रकृतस्यापाद्यमानस्य साम्यं मालारूपता च । 'यदि ते चरणाम्बुजं हृदा वहतो मे न हतो विपद्गणः । अथ चण्डकरेण मण्डिते दिनमध्येऽपि जितं तमोगणैः ॥' अत्र न हत इति विद्यमानतारूपात्प्रकृतार्थाज्जितमित्यापाद्यमानस्याप्रकृतार्थस्य सर्वोत्कर्षण वर्तनरूपस्याधिक्यम् । न चात्र विपद्गणस्यावस्थानमात्रेण तमोगणानामवस्थानमापादयितुमुचितम्, न तु जयः अनानुरूप्यात्, इति शङ्कचम् । भगवञ्चरणसंनिधाने यद्येकस्य विपद्गणस्य स्वास्थ्य तदा समुचित एव बहूनां तमोगणानां सूर्यसंनिधाने जय इति न दोषः । 'सदैव स्नेहाट्टै सुरतटिनि निष्किचनजने ___यदि त्वं नाधत्से सुरभिरिव वत्से मयि कृपाम् । तदा चिन्तारत्नत्रिदशपतिभूमीरुहमुखा ददीरन्नथिभ्यः किमिति कणभिक्षामपि जडाः ॥' अत्राभावेनाभावापादानम् । स्नेहार्द्रजाहवीरूपप्रकृतार्थापेक्षया चिन्तारत्नादीनां जडत्वेन न्यूनत्वं चैतेष्वापाद्यमानमप्रकृतम् । 'मामनुरक्तां हित्वा यदि राजन्पुरुषसिंह यातोऽसि । मुक्त्वा वनमिदमेष्यति वनलक्ष्मीमत्र किं चित्रम् ॥' For Private And Personal Use Only
SR No.020600
Book TitleRas Gangadhar
Original Sutra AuthorN/A
AuthorJagganath Pandit
PublisherNirnaysagar Yantralaya Mumbai
Publication Year1888
Total Pages533
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy