SearchBrowseAboutContactDonate
Page Preview
Page 483
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir रसगङ्गाधरः । ४६७ शब्दान्तरार्थविशेषितशरीरम्, शुद्धैकसुबन्तार्थरूपं चेति द्वेधा । अत्राप्याद्यं साक्षात्परम्परया वा वाक्यार्थविशेषितम् सुबन्तार्थमात्रविशेषितं चेति द्विभेदम् । तिङन्तार्थभूतमपि साक्षात्परम्परया वा वाक्यान्तरार्थविशेषितम्, सुबन्तार्थमात्रविशेषितं चेति द्विप्रकारम् । शुद्धभेदस्तु तिङन्तार्थस्य न संभवति । क्रियायाः कारकविशेषितत्वावश्यंभावात् । शिष्टमग्रे निरूपयिष्यते । उदाहरणम् - 'विनिन्द्यान्युन्मत्तैरपि च परिहार्याणि पतितैरवाच्यानि व्रात्यैः सपुलकमपास्यानि पिशुनैः । हरन्ती लोकानामनवरतमेनांसि कियतां कदाप्यश्रान्ता त्वं जगति पुनरेका विजयसे ॥' अत्र ह्यनन्यसाधारणतया प्रतिपादितस्य भगवत्या भागीरथ्या उत्कर्षस्यापाततोऽघटमानस्योपपादनायानवरत सकललोकपापहरणसमानाधिकरणः श्रमाभावः सुबन्तमात्रार्थविशेषितः सुबन्तार्थो विशेषवपुर्हेतुत्वेनोपात्तः । ' त्रपन्ते तीर्थानि त्वरितमिह यस्योद्धृतिविधौ करं कर्णे कुर्वन्त्यपि किल कपालिप्रभृतयः । इमं तं मामम्ब त्वमथ करुणाक्रान्तहृदये पुनाना सर्वेषामघमथनदर्प दलयसि ॥' अत्र सकलदेवतीर्थदर्पदलनस्य सिद्धये स्वात्मपवित्रीकरणं वा निबद्धम् । तच्च क्षुद्रत्वात्तादृशसिद्ध्यसमर्थ विशेषकान्तरमाकाङ्क्षतीति तीर्थकर्तृकत्रपाकरणम्, कपालिप्रभृतिकर्तृककर्णमुद्रणं चेति वाक्यार्थद्वयं स्वात्मरूपकर्मद्वारा विशेषकमुपात्तम् । तद्विशिष्टं च तादृशपवित्रीकरणं भागीरथ्युपारूढं तादृशकार्योपपादनसमर्थमिति भवति हेतुः । 'पद्मासन प्रमुखनिर्जर चित्तवृत्तिदुष्प्रापदिव्यमहिमन्भवतो गुणौघान् । तुष्टषतो मम नितान्तविशृङ्खलस्य मन्तुं शिशो शिव न मन्तुमिहासि योग्यः ॥' For Private And Personal Use Only
SR No.020600
Book TitleRas Gangadhar
Original Sutra AuthorN/A
AuthorJagganath Pandit
PublisherNirnaysagar Yantralaya Mumbai
Publication Year1888
Total Pages533
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy