SearchBrowseAboutContactDonate
Page Preview
Page 466
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काव्यमाला। नतनूभुवः । अयोधनः ॥ बार यथा वा-- __ 'मन्त्रार्पितहविर्दीप्तहुताशनतनूभुवः । शिखास्पर्शेन पाञ्चाल्याः स्थाने दग्धः सुयोधनः ॥' पूर्व कारणकार्यधर्मयोः श्लेषेणैक्यसंपादनम्, इह तु मरणदाहयोरभेदाध्यवसानरूपेणातिशयेनेति विशेषः । द्वितीयो भेदो यथा'वडवानलकालकूटलक्ष्मीमकरव्यालगणैः सहैधितः । रजनीरमणो भवेन्नृणां न कथं प्राणवियोगकारणम् ॥' लक्ष्मीरप्यत्र मारकत्वेनैव कवेर्विवक्षिता । तृतीयो यथा-- 'नितरां धनमाप्नुमर्थिभिः क्षितिप त्वां समुपास्य यत्नतः । निधनं समलम्भि तावकी खलु सेवा जनवाञ्छितप्रदा ॥' [अत्र मरणबहुधनयोः श्लेषेणैक्ये बहुधनरूपेप्टात्मना वाञ्छितार्थाप्तिरूपसमालंकारचमत्कारः ।] अत्र व्याजस्तुतौ मुखे धनप्राप्तिरूपस्तुतिस्फूर्तिदशायां समालंकारस्तावदप्रत्यूह एव । मरणप्राप्तिप्रतीतिदशायां तु व्याजस्तुतेरेव पूर्णाङ्गतया तया विषमालंकारो बाध्यते । यत्तु कुवलयानन्दकृता'उच्चैर्गजैरटनमर्थयमान एव त्वामाश्रयन्निह चिरादुषितोऽस्मि राजन् । उच्चाटनं त्वमपि लम्भयसे तदेव मामद्य नैव विफला महतां हि सेवा ॥' इत्युदाहृत्य, 'अत्र व्याजस्तुतौ यद्यपि स्तुत्या निन्दाभिव्यक्तिविवक्षायां विषमालंकारः, तथापि प्राथमिकस्तुतिरूपवाच्यकक्षायां समालंकारो प्राग्वदाह-अथेति । स्थाने युक्तम् । मुखे प्रारम्भे । अत्रेति । यत इत्यादिः । यथाकथंचिद्गत्यर्थतामिति । "नवेति विभाषा' इति सूत्रे हरति भारमित्यत्राप्राप्तो 'हको:-' इति विभाषा" इति भाष्योक्तेर्यथाकथंचिद्गत्यर्थानां तत्राग्रहाच्चिन्त्यमिदम् । १. 'अत्र मरण-' इत्यायेकस्मिन्नेव पुस्तके समुपलभ्यते, For Private And Personal Use Only
SR No.020600
Book TitleRas Gangadhar
Original Sutra AuthorN/A
AuthorJagganath Pandit
PublisherNirnaysagar Yantralaya Mumbai
Publication Year1888
Total Pages533
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy