SearchBrowseAboutContactDonate
Page Preview
Page 458
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org ४४२ काव्यमाला । औपम्यांश इवोपमामूलेषु, सोडलंकाराणां कतिपयानां निवर्तकः नतु स्वयं ष्टथगलंकारास्पदम् । अलंकाराणां भणितिविशेषमात्ररूपत्वात् । एवं च विमर्शिनीकारोक्तमपि पद्यमनयैव दिशा नीयते तदा न दोषः । यत्तु - " अन्यत्र करणीयस्य ततोऽन्यत्र कृतिश्च या । अन्यत्कर्तुं प्रवृत्तस्य तद्विरुद्धकृतिस्तथा ॥ अपारिजातां वसुधां चिकीर्षन्द्यां तथा कृथाः । गोत्रोद्धारप्रवृत्तोऽपि गोत्रोदं पुराकरोः ॥' Acharya Shri Kailassagarsuri Gyanmandir अत्र श्रीकृष्णं प्रति शुक्रस्योपालम्भवाक्ये भुवि चिकीर्षिततया तत्र करणीयमपारिजातत्वं दिवि कृतमित्येकासंगतिः । पुरा गोत्राया उद्धारे प्रवृत्तेन वराहरूपिणा तद्विरुद्धं गोत्राणां दलनं खुरकुछनैः कृतमिति द्वितोया । यथा वा -- 'त्वत्खङ्गखण्डितसपत्नविलासिनीना भूषा भवन्त्यभिनवा भुवनैकवीर | नेत्रेषु कंकणमथोरुषु पत्रवल्ली चोलेन्द्रसिंह तिलकं करपल्लवेषु ॥ 'मोहं जगत्रयभुवामपनेतुमेत दादाय रूपमखिलेश्वर देहभाजाम् । निःसीमकान्तिरसनीरधिनामुनैव मोहं प्रवर्धयसि मुग्धविलासिनीनाम् ॥' अत्राद्योदाहरणे कंकणादीनामन्यत्र करणीयत्वं प्रसिद्धमिति नोपन्यस्तम् । भवतिना भावनारूपान्यत्र कृतिराक्षिप्यते इति लक्षणानुगतिः” इति कुवलयानन्दकृतासंग तेरन्यद्भेदद्वयं लक्षयित्वोदाहृतम्, तन्न । तत्र तावत् 'अपारिजातां वसुधां चिकीर्षन्द्यां तथा कृथाः' इत्यत्र पारिजातरा - हित्यचिकीर्षया कारणभूतया सह पारिजातराहित्यस्य कार्यस्य विरुद्धवैयधिकरण्योपनिबन्धात् 'विरुद्धं भिन्नदेशत्वं कार्यहेत्वोरसंगतिः' इति प्राथमिकासंगतितो वैलक्षण्यानुपपत्तेः । आलम्बनाख्यविषयतासंबन्धेन चिकीपायाः सामानाधिकरण्येन कार्यमात्रं प्रति हेतुत्वस्य प्रसिद्धेः । न च पा For Private And Personal Use Only
SR No.020600
Book TitleRas Gangadhar
Original Sutra AuthorN/A
AuthorJagganath Pandit
PublisherNirnaysagar Yantralaya Mumbai
Publication Year1888
Total Pages533
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy