SearchBrowseAboutContactDonate
Page Preview
Page 440
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४२४ काव्यमाला। 'तपोनिधे कौशिक रामचन्द्रं निनीषसे चेन्नय किं विकल्पैः । निरन्तरालोकनपुण्यधन्या भवन्तु वन्या अपि जीवभाजः ॥' अत्र पुत्रस्नेहाकुलस्य दशरथस्य वाक्ये नयेति विधिर्बाधितो मा नयेति निषेधे पर्यवसितोऽन्यथा तु मम प्राणवियोगो भविष्यतीत्यर्थ व्यनक्तीति विध्याभासरूपोऽयमाक्षेपः । एवमुदाहरणेषु स्थितेषु प्राचीनमतानुसारिण्याक्षेपोदाहरणान्येतेषां मतेऽनुदाहरणान्येव । इत्थं च प्राथमिकमतसिद्ध आक्षेपः प्रतीपप्रभेदः । द्वितीयमतसिद्धस्तु विहितनिषेध एव न पुनराक्षेपः । तत्र निषेधस्यानाभासरूपत्वात् । इति तदाशयः। इतरे तु "निषेधमात्रमाक्षेपः ।' चमत्कारित्वं चालंकारसामान्यलक्षणप्राप्तमेव । तच्च व्यङ्गयाथै सति संभवतीति सव्यङ्गयो निषेधः सर्वोऽप्याक्षेपालंकारः । एवं चोपमेयरुतोपमानकैमर्थक्यपक्षान्तरालम्बनकृतप्राचीनपक्षकैमर्थक्यविशेषप्रतिपादनप्रयोजकोक्तवक्ष्यमाणकथनकैमर्थक्यानामनुपदोक्तनिषेधविध्याभासयोश्च संग्रहः" इत्यप्याहुः। अथाक्षेपध्वनिस्तन्मतानुसारेणोदाहियते 'त्वामवश्यं सिसृक्षन्यः सृजति स्म कलाधरम् । किं वाच्यं तस्य वैदुष्यं पुराणस्य महामुनेः ॥' अत्र येषामुपमानकैमर्थ्यमाक्षेपस्तेषां त्वयि सति किं कलाधरेणेत्यंशमादाय, येषां च निषेधमात्रमाक्षेपस्तेषां वृद्धस्य ब्रह्मणो वैदुष्यं नास्तीत्यंशमादाय च ध्वनिः । ननु किं वाच्यं तस्य वैदुष्यमिति वैदुप्योक्तेः सबाधाया झटिति वैदुष्याभावे पर्यवसानादुपमानकैमर्थ्यस्यापि झगित्येव प्रतीतर्वाच्यकल्पत्वात्कथं नाम ध्वनित्वं स्यादिति । नैष दोषः । ब्रह्मणो हि त्वां सिसृक्षतः करणपाटवसंपत्त्यर्थमादौ पाण्डुलेखवदिन्, निमितवतः किं वैदुष्यं वाच्यमिति वैदुष्योक्तेर्निर्बाधत्वादादौ सत्यां विश्रान्तौ पश्चादवश्यं पुराणस्येत्येतदर्थपर्यालोचनेन वैदुष्याभावचन्द्रकैमर्थ्ययोः पर्यवसानमिति न ध्वनित्वस्खलनम् । येषां त्वाभासरूप एव निषेध आक्षेपस्तेषां न प्रागुक्त आक्षेपध्वनिरपि त्वयम् । For Private And Personal Use Only
SR No.020600
Book TitleRas Gangadhar
Original Sutra AuthorN/A
AuthorJagganath Pandit
PublisherNirnaysagar Yantralaya Mumbai
Publication Year1888
Total Pages533
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy