SearchBrowseAboutContactDonate
Page Preview
Page 437
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir रसगङ्गाधरः। ४२१ अथालेपः 'उपमेयस्योपमानसंबन्धिसकलप्रयोजननिष्पादनक्षमत्वादुपमानकैमर्थ्यमुपमानाधिक्षेपरूपमाक्षेपः। इति केचिदाहुः । तन्मते चेत्थमुदाहरणं निर्माणीयम् - 'अभूदप्रत्यूहः कुसुमशरकोदण्डमहिमा - विलीनो लोकानां सह नयनतापोऽपि तिमिरैः । तवास्मिन्पीयूषं किरति परितस्तन्वि वदने कुतो हेतोः श्वेतो विधुरयमुदेति प्रतिदिनम् ।।' यथा वा 'वसुधावलयपुरंदर विलसति भवतः कराम्भोजे । चिन्तामणिकल्पद्रुमकामगवीभिः कृतं जगति ॥' आद्ये उपमानप्रयोजननिष्पादनं शाब्दम्, द्वितीये त्वार्थमिति भेदः । अपरे तु'पूर्वोपन्यस्तस्यार्थस्य पक्षान्तरालम्बनप्रयुक्तो निषेध आक्षेपः । इत्याहुः । तेषां मते इदमुदाहरणीयम् 'सुराणामारामादिह झगिति झञ्झानिलहताः । ___ पतेयुः शाखीन्द्रा यदि तदखिलो नन्दति जनः । किमेभिर्वा कार्य शिव शिव विवेकेन विकलै श्चिरं जीवन्नास्तामधिधरणि दिल्लीनरपतिः ॥' अत्र किमेभिरित्युत्तरार्धेन पूर्वार्धोक्तपक्षप्रतिक्षेपमात्र पक्षान्तरालम्बनेन क्रियते । यथा वा 'किं निःशङ्कं शेषे शेषे वयसि त्वमागतो मृत्युः । अथवा सुखं शयीथा जननी जागर्ति जाह्नवी निकटे ॥' यितवीरत्वेन प्रसिद्धहनुमतो निन्दा स्वात्मन्यपर्यवस्यन्ती इतरस्तुतिमादायैव पर्यवस्यति । इतरस्तुतेर्बलादाक्षिप्तत्वान्न ध्वनित्वमिति दिक् ॥ इति रसगङ्गाधरमर्मप्रकाशे व्याजस्तुतिप्रकरणम् ॥ शिष्यावधानाय प्रतिजानीते-अथेति। उपमेयस्योपमेति । अमुमाक्षेपं प्रतीपं For Private And Personal Use Only
SR No.020600
Book TitleRas Gangadhar
Original Sutra AuthorN/A
AuthorJagganath Pandit
PublisherNirnaysagar Yantralaya Mumbai
Publication Year1888
Total Pages533
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy