SearchBrowseAboutContactDonate
Page Preview
Page 421
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir रसगङ्गाधरः। कार्येण कारणं गम्यं यथा'किं मस्तव वीरतां वयममी यस्मिन्धराखण्डल क्रीडाकुण्डलितभ्र शोणनयने दोमण्डलं पश्यति । नानाभूषणरत्नजालजटिलास्तत्कालमेवाभव न्विन्ध्यक्ष्माधरगन्धमादनगुहासंबन्धिनो भूरुहाः ॥' अत्र विन्ध्यारण्यतरुभूषणेनारिपलायनं गम्यते । यदि तु वक्ष्यमाणरीत्या पर्यायोक्तालंकारस्यायं विषय इत्युच्यते तदेदं विविक्तमुदाहरणम---- 'नितरां परुषा सरोजमाला न मृणालानि विचारपेशलानि । यदि कोमलता तवाङ्गकानामथ का नाम कथापि पल्लवानाम् ॥' अत्र पल्लवादितिरस्कारेण कार्येण तदङ्गानां सौकुमार्यातिशयः कारणम् । कार्यकारणभावश्चेह ज्ञानयोः । तेन पारुष्यस्य मृणालगतत्वेन ज्ञायमानस्य स्वरूपतस्तदङ्गसौकुमार्याजन्यत्वेऽपि न क्षतिः । कारणेन कार्य गम्यं यथा'सृष्टिः सृष्टिकता पुरा किल परित्रातुं जगन्मण्डलं ___ त्वं चण्डातप निर्दयं दहसि यज्ज्वालाजटालैः करैः । संरम्भारुणलोचनो रणभुवि प्रस्थातुकामोऽधुना जानीमो भवता न हन्त विदितो दिल्लीधरावल्लभः ॥' अत्र राजवर्णनाङ्गत्वेन रवेभयोत्पादने वर्ण्यत्वेन प्रस्तुते साक्षात्तदननुगुणत्वादप्रस्तुतेन प्रस्थानेन साक्षात्तदनुगुणं रिपुकर्तृकसूर्यमण्डलभेदनं गम्यते । यदि चात्र कारणं यथाकथंचित्प्रस्तुतमेवेत्युच्यते तदेदमुदाहरणम्--- 'आनम्य वल्गुवचनैर्विनिवारितेऽपि रोषात्प्रयातुमुदिते माय दूरदेशम् । वाला कराङ्गुलिनिदेशवशंवदेन क्रीडाबिडालशिशुनाशु रुरोध मार्गम् ॥' For Private And Personal Use Only
SR No.020600
Book TitleRas Gangadhar
Original Sutra AuthorN/A
AuthorJagganath Pandit
PublisherNirnaysagar Yantralaya Mumbai
Publication Year1888
Total Pages533
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy