SearchBrowseAboutContactDonate
Page Preview
Page 416
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काव्यमाला। प्रतिपादन मिति । यच्चाप्युच्यते 'अयमतिजरठाः-इत्यादि समासोक्ताविव गूढश्लेषोऽस्तु' इति, तदपि गर्भस्त्रावेण गलितम् । श्लिष्टविशेषणायां समासोक्तावपि व्यक्त्यैवाप्रकृतार्थप्रतीतिस्वीकारात् । अत एव ध्वनिकृता 'गुणीभूतव्यङ्गयभेदः समासोक्तिः' इत्युक्तम् । 'समासोक्त्या श्लेषो बाध्यते' इत्युद्भटप्रभृतिश्च । बाधो हि श्लेषस्य तत्राप्रवृत्तिमात्रम् । श्लिष्टशब्दप्रयोगस्तु तत्रोभयार्थतामात्रेणोपपादनीय इति न किंचिदेतत् । वयं तू ब्रूमः-अनेकार्थस्थले ह्यप्रकृताभिधाने शक्तेरुक्तिसंभवोऽप्यस्ति । योगरूढिस्थले तु सापि दुरापास्ता । यथा 'चाञ्चल्ययोगिनयनं तव जलजानां श्रियं हरतु । विपिनेऽतिचञ्चलानामपि च मृगाणां कथं नु तां हरति ।' अत्र नैवाश्चर्यकारी चाञ्चल्यगुणरहितानां कमलानां चाञ्चल्यगुणाधिकेन तव लोचनेन शोभायास्तिरस्कारः, आश्चर्यकारी तु हरिणानां तद्गुणयुक्तानां तिरस्कार इति वाच्यार्थे पर्यवसन्नेऽपि रूढिनिर्मुक्तकेवलयोगमर्यादया मूर्खपुत्राणां धनहरणं नेतृ (त्रि)भिश्चौ रैः सुशकं न तु गवेषकाणामिति जलजनयनमृगशब्देभ्यः प्रतीयमानोऽर्थः कथं विना व्यञ्जनाव्यापारमुपपादयितुं शक्यते । यतो योगशक्ते रूढ्या दृढनिगडनियन्त्रिताया नास्ति स्वातन्त्र्यम् । अत एव पङ्कजादिपदेभ्यः पङ्कजनिकर्तृत्वेन कुमुदशैवालादिबोधो लक्षणयैव । तादृशशक्तिज्ञानानां पद्मत्वप्रकारकबोधस्यैव कार्यतावच्छेदकत्वादित्युक्तं नैयायिकैः । अत एव च 'ई शब्दशक्तिमूलध्वनिस्थले संबन्धविशेषरूपव्यञ्जनाया बोधजनकत्वकल्पनापेक्षया कप्तशतेस्तत्त्वकल्पनमेवोचितम् । लाघवात् । एवं चाविष्टसाधारणविशेषणायां समासोक्तावेव गुणीभूतव्यङ्गयत्वम् , श्लिष्टविशेषणायामप्यारोपांशमादाय तत्त्वमिति दीक्षिताशयः । वस्तुतस्तु द्वितीयार्थस्य व्यङ्गयत्वेऽपि न तमादाय ध्वनित्वमुचितम् । उपमानादिवि. धया तस्यापि प्रकृतोपस्कारकत्वेन गुणत्वात् । अन्यथा समासोक्तावपि गुणीभूतव्यङ्गयवोक्तिरसंगता स्यादित्यलंकारव्यङ्गयत्वमादायैव ध्वनित्वमुक्तमिति बोध्यम् । एतेन यदप्युच्यते अयमतीत्याद्यपास्तिित बोध्यम् । अपिना साधारणविशेषणसमुच्चयः । एतेन शक्तिनिरासः। अत एव व्यक्तयैव तदङ्गीकारादेव । तिश्चेति । उक्तमित्यस्यानुषङ्गः । ननु प्रागुक्तरीत्या तत्र श्लेषस्यैवाभावेन कथं बाध्यत इत्युक्तिरत आह-बाधो हीति। तत्र समासोत्तौ। नन्वेवं श्लिष्टेतिशब्दप्रयोगः कथमत आह-श्लिऐति। For Private And Personal Use Only
SR No.020600
Book TitleRas Gangadhar
Original Sutra AuthorN/A
AuthorJagganath Pandit
PublisherNirnaysagar Yantralaya Mumbai
Publication Year1888
Total Pages533
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy