SearchBrowseAboutContactDonate
Page Preview
Page 413
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir रसगङ्गाधरः। यस्यानुपप्लुतगतेः परवारणस्य दानाम्बुसेकसुभगः सततं करोऽभूत् ॥' कुवलयानन्दकारस्तु–“यदत्र प्रकृताप्रकृतश्लेषोदाहरणे शब्दशक्तिमूलध्वनिमिच्छन्ति प्राञ्चस्तत्तु प्रताप्रताभिधानमूलस्योपमादेरलंकारस्य व्यङ्गयत्वाभिप्रायं न त्वप्रकृतार्थस्यैव व्यङ्गयत्वाभिप्रायम् । अप्रकृतार्थस्यापि शक्त्या प्रतिपाद्यस्याभिधेयत्वेन व्यत्यनपेक्षत्वात् । यद्यपि प्रकृतार्थे प्रकरणवशाज्झटिति बुद्धिस्थिते सत्येव पश्चान्नृपतितग्राह्यधनादिवाचिनां राजकरादिपदानामन्योन्यसंनिधानबलात्तद्विषयशक्त्यन्तरोन्मेपपूर्वकमप्रकृतार्थः स्फुरेत् । नैतावता तस्य व्यङ्गचत्वम् । शक्त्या प्रतिपाद्यमाने सर्वथैव व्यक्त्यनपेक्षणात् । पर्यवसिते प्रकृतार्थाभिधाने स्फुरति चेत्कामं गूढश्लेषोऽस्तु । अस्ति चान्यत्रापि गूढः श्लेषः । यथा धितज्ञानस्य अवारितगतेर्वा अदुष्टहितकर्तुर्वा । परेति । शत्रुनिवारकस्य । गजपक्षे भद्रजातीयस्य । अत्युच्चत्वादुःखाधिरोह्यशरीरस्य । विशाला वंशस्य पृष्ठदण्डस्योन्नतियस्य । कृतभ्रमरसंग्रहस्य । अनुद्धतधीरगमनस्य । परस्योत्कृष्टस्य वारणस्य गजस्य । करः शुण्डादण्डः । मदजलसेकसुभगोऽभूदित्यर्थः । अत्र राजा वाच्यो हस्ती प्रतीयमानः । ननु प्रकरणेनाभिधाया नियमनादप्रकृतार्थस्य व्यङ्गयत्वमेवेति कथं श्लेषोऽत आह -यदत्रेति । मूलस्य मूलकस्य । अलंकारस्योत । इदमुपलक्षणं वस्तुध्वनेरपि । शनिरशनिरित्यादौ शनिविरुद्धरूपेऽप्रस्तुतेऽशनिशब्देनाभिधया प्रतीयमानेऽपि तन्मूलकस्य विरुद्धावपि त्वदनुवर्तनमेकं कार्य कुरुत इति वस्तुध्वनेरशनिशब्दशक्तिमूलस्य संभवात् । एतेन शब्दशक्तिमूलवस्तुध्वनेरुच्छेद इत्यपास्तम् । अत एव विवक्षितार्थमाह-न त्विति । अभिधेयत्वेति । वाच्यत्वावश्यकत्वेनेत्यर्थः । 'अभिधाया अवश्यंभावेन' इति क्वचित्पाठः । झटितीति । एवं च प्रकरणादीनां प्राथमिकबोधत्वमेव प्रतिबध्यतावच्छेदकमिति भावः । नृपतितबाह्येति । नृपतिनृपतिग्राह्येत्यर्थः । यथासंख्येनास्य राजकरयोरन्वयः । 'असावुदयमारूढः कान्तिमारक्तमण्डल: । राजा हरति सर्वस्वं मृदुभिनूतनैः करैः ॥' इत्यादाविति भावः । अन्योन्यसंनिधानति । परस्परार्थसंबन्ध्यर्थवाचकशब्दसमभिव्याहाररूपशब्दान्तरसंनिधोत्यर्थः । तद्विषयेति । प्रकृतार्थविषयेत्यर्थः । नैतावतेत्यस्य तथापीत्यादिः । एतावता पूर्वापरभावमात्रेण तस्य अप्रकृतार्थस्य पश्चादिति अप्रकृतार्थ इत्यनुषज्यते । काममिति। अप्रकृतस्य द्वितीयस्य शीघ्रप्रत्ययागढत्वम् । तदसंभवशङ्कां निरस्यति-अस्ति चेति । चो ह्यर्थे । For Private And Personal Use Only
SR No.020600
Book TitleRas Gangadhar
Original Sutra AuthorN/A
AuthorJagganath Pandit
PublisherNirnaysagar Yantralaya Mumbai
Publication Year1888
Total Pages533
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy