________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
रसगङ्गाधरः ।
समासोक्तौ तयोः पृथक्छब्दवेद्यत्वाभावात् । किं तु प्रकृतवाक्यार्थघटका: पदार्थास्तादात्म्येनाप्रकृतघटकपदार्थालीढा एव वैशिष्ट्यमनुभवन्तो महावाक्यार्थरूपेण परिणमन्तीति सूक्ष्ममीक्षणीयम् । अतिशयोक्ताविवाप्रकृतेन प्रकृतस्य निगरणं तु न वाच्यम् । तस्य शब्दवाच्यत्वात् । अथास्याः केवलभेदा निगद्यन्ते
विशेषणसाम्यं श्लेषेण भवति शुद्धसाधारण्येन वा । तदपि धर्मान्तरपुरस्कारेण कार्य पुरस्कारेण वेति प्रत्येकं द्विविधम् । तत्र 'विबोधयन्कर - स्पर्शैः' इत्यत्र धर्मान्तरपुरस्कारेण श्लेषे समुदाहृतमपि विशेषणसाम्यं पुनरुदाह्नियते—
-
Acharya Shri Kailassagarsuri Gyanmandir
'उत्सङ्गे तव गङ्गे पाय पायं पयोऽतिमधुरतरम् । शमिताखिलश्रमभरः कथय कदाहं चिराय शयिताहे ॥'
अत्र शिशुजननीवृत्तान्ताभेदेन स्थितः प्रकृतवृत्तान्तः । श्लिष्टकार्यपुरस्कारेणाप्युदाहृतं 'संगृह्णास्यलकान्निरस्यसि -' इत्यत्र । शुद्धसाधारण्येन धर्मान्तर पुरस्कारेण यथा
'अलंकर्तु कर्णी भृशमनुभवन्त्या नवरुजां ससीत्कारं तिर्यग्वलितवदनाया मृगदृशः । कराव्जव्यापारानतिसुकृतसारान्रसयतो
जनुः सर्वश्लाघ्यं जयति ललितोत्तंस भवतः ॥
अत्र नवकान्तया क्लेशेन कर्णे क्रियमाणस्योत्तंसस्य वृत्तान्तः प्रत्यग्रखण्डिताधरकामुकवृत्तान्ताभेदेन स्थितः । यथा वा
३७७
For Private And Personal Use Only
वाक्यार्थता । तदाह – वैशिष्ट्यमिति । अवान्तरवाक्यार्थयोभिन्नत्वादाह - महेति । तस्येति । प्रकृतस्य विशेषणमात्रप्रतिपाद्यत्वादित्यर्थः । तदपि द्विधा तत्साम्यमपि । धर्मान्तरेति । कार्यातिरिक्तधर्मपुरस्कारेणेत्यर्थः । कार्यातिरिक्तधर्मप्रतिपादकविशेषणसाम्येनाप्रकृतार्थोपस्थापनं कार्यरूपधर्मप्रतिपादकतत्साम्येन वेति द्वैविध्यमिति भावः । उत्सङ्गे ऊरौ मध्ये च | पायें पायं पीत्वा पीत्वा । पयो जलं दुग्धं च । शयिताहे इति लुडुत्तमपुरुषस्यैकवचनम् । रुजाशब्दष्टावन्तः । तिर्यग्वलितेति । अतिचक्रीकृतेत्यर्थः । अतिसुकृतेति । अतिपुण्यसाररूपानित्यर्थः । रसयतोऽनुभवतः । हे रमणीक - भूषण, सर्वस्तुत्यं तत्र जन्म जयतीत्यर्थः । नवकान्तया नवोदया | प्रत्ययेति ।
८८