________________
Shri Mahavir Jain Aradhana Kendra
३३६
www. kobatirth.org
काव्यमाला |
Acharya Shri Kailassagarsuri Gyanmandir
तथा हि
'उपासनामेत्य पितुः स्म रज्यते दिने दिने सावसरेषु बन्दिनाम् ।
पठत्सु तेषु प्रतिभूपतीनलं विनिद्ररोमाजनि शृण्वती नलम् ॥' अस्मिन्नैषधीयपद्ये ( १ । ३४) द्वयोः क्रिययोरुद्देश्यविधेयभावेन गुणप्रधानभावमकुर्वता बन्दिनः षष्ठयन्ततया सप्तम्यन्ततया च द्विः परामृशता कविना वाक्यार्थः क्रमेलकवदसंष्टुलतां प्रापितः । यदि च स एव वाक्यार्थः प्रकारान्तरेण निर्मीयते
'उपासनार्थ पितुरागतापि सा निविष्टचित्ता वचनेषु बन्दिनाम् । प्रशंसतां द्वारि महीपतीनलं विनिद्ररोमाजनि शृण्वती नलम् ॥' इति । तदा ललनाङ्गसंनिवेश इव कीदृशीं कमनीयतामावहेदिति स - हृदयैराकलनीयम् ।
एवम् —
'तवामृतस्यन्दिनि पादपङ्कजे निवेशितात्मा कथमन्यदिच्छति ।
स्थितेरविन्दे मकरन्दनिर्भरे मधुव्रतो नेक्षुरकं हि वीक्षते ॥' इति कुवलयानन्दोदाहृते आलुवन्दारुस्तोत्रपद्ये वीक्षणमात्रस्यावर्जनीयस्य प्रतिषेधानर्हत्वादिच्छापूर्वक वीक्षणप्रतिषेधस्य च ' सविशेषणे हि - ' इति न्यायेनेच्छाप्रतिषेधधर्मपर्यवसायितया यद्यपि धर्मैक्यं सुसंपादम् । अस्तु वा दृष्टान्तालंकारः । तथापि पादपङ्कजे निवेशितात्मेत्याधारसप्तम्याः स्थितेऽरविन्दे इति सतिसप्तमी वस्तुप्रतिवस्तुविम्बप्रतिविम्वभावयोरन्यतरेणापि प्रकारेण नानुरूपा, इत्यसंष्टुलता स्थितैव । 'स्थितोऽरविन्दे मकरन्दनिर्भरे' इति चेत्क्रियते तदा तु रमणीयम् ।
नपहर्तुमित्यत्राभावादेः संष्टुलतेति भावः । क्रमेलकवत् उवत् । तवेति । शिवं प्रति भक्तोक्तिः । इक्षुरकं ‘तालमखाणा' इति प्रसिद्धौषधीपुष्पम् । काशपुष्पमिति कश्चित् । गोक्षुरमित्यन्यः । आलुवन्दारुस्तोत्रेति । अवर्जनीयेति । अनिष्टेऽपि स्वसामग्री - वशाज्जायमानस्येत्यर्थः । धातोरिच्छापूर्वकवीक्षणे लक्षणया आह - इच्छापूर्वकेति । सुसंपादमिति । तथा च प्रतिवस्तूपमोदाहरणत्वोक्तिस्तेषां संगतेति भावः । उक्तप्रकारेण धर्मैक्यानादरे त्वाह- अस्तु बेति । इति सतिसप्तमीति । इति सत्सप्तमीत्यर्थः । रमणीयमिति । तत्राप्याधारसप्तमीसंपत्तेरिति भावः । घटनाया
For Private And Personal Use Only