SearchBrowseAboutContactDonate
Page Preview
Page 345
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir रसगङ्गाधरः । ३२९ यदि तु 'तपसा नाल्पेन शक्यते लब्धुम्' इत्याख्यातान्तं क्रियते तदा लिङ्गभेदो न दूषणम् । एवमजहल्लिङ्गनामार्थस्य सत्तावपि न दोषः । यथा—'फलमतिशयितं तपस्यायाः' इति चतुर्थचरणनिर्माणे । एवं पुरुषस्यैकरूप्याभावे दोषः । यथा 'दिवि सूर्यो भुवि त्वं च पाताले पन्नगाग्रणीः । दिक्षु दिक्पालवर्गश्च राजपुंगव राजते ॥' यदि त्वमित्यत्र भवानिति क्रियते तदा न दोषः । एवं कालभेदेऽप्युह्यम् । एतेन - सङ्गामाङ्गणमागतेन भवता चापे समारोपिते देवाकर्णय येन येन सहसा यद्यत्समासादितम् । कोदण्डेन शराः शरैररिशिरस्तेनापि भूमण्डलं तेन त्वं भवता च कीर्तिरमला कीर्त्या च लोकत्रयम् ॥' इति प्राचीनानां पद्यं दीपकांशेऽपि सदोषमेव । इति रसगङ्गाधरे दीपकप्रकरणम् । अथ प्रतिवस्तूपमा तत्र तावत्सादृश्यस्य यत्र चमत्कारिता तत्रोपमेत्युक्तम् । तस्यां च साधारणधर्मस्य सर्वेऽपि प्रकारा यथासंभव निरूपिताः । सादृश्योपस्कृतस्य वस्त्वन्तरस्य चमत्कारितायां भेदाभेदान्यतरप्रधाना अन्येऽलंकाराश्च । तेष्वपि साधारणधर्माणां यथावसरं यथासंभवं च स्थितिः प्रदर्शितैव । इदानीं वस्तुप्रतिवस्तुभावापन्नसाधारणधर्मोत्थापितावाक्यार्थगता प्रतिवस्तूपमा निरूप्यते । न चास्या वाक्यार्थगतत्वेनैवोपमातो भेद इति भ्रमित नामार्थो धर्मः । स च जहलिङ्ग: । तस्य सर्वलिङ्गत्वात् । न दूषणमिति । तस्य तत्रान्वय संभवादिति भावः । एवमग्रेऽपि बोध्यम् । एवमुक्तप्रकारेण । एवं लिङ्गभेददोघवत् । एवमुक्तप्रकारेण । अन्यांशेऽपि दोषस्य प्रागुक्तत्वादाह - अपीति ॥ इति रसगङ्गाधर मर्मप्रकाशे दीपकम् ॥ प्रतिवस्तूपमां निरूपयति — अथेति । अथात्र विशेषं वक्तुं प्रागुक्तं सर्व संग्रहेणानुवदति - तत्रेति । निरूपणीयायां तस्यामित्यर्थः । अलंकाराश्चेति । निरूपिता ४२ For Private And Personal Use Only
SR No.020600
Book TitleRas Gangadhar
Original Sutra AuthorN/A
AuthorJagganath Pandit
PublisherNirnaysagar Yantralaya Mumbai
Publication Year1888
Total Pages533
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy