SearchBrowseAboutContactDonate
Page Preview
Page 343
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir रसगङ्गाधरः। ३२७ चौपम्यानापत्तेश्च । तस्मात्तुल्ययोगिताया एव त्रैविध्यमुचितम् । प्रकतानामेव धर्मस्य सहदृत्तिः, अप्रकृतानामेव, प्रकृताप्रकतानां चेति । एवं च प्राचीनानां तुल्ययोगितातो दीपकस्य प्रथगलंकारतामाचक्षाणानां दुराग्रहमात्रमिति नव्याः । ___ अमुं चालंकारं धर्मस्य गुणक्रियाद्यात्मकस्यादिमध्यावसानगतत्वेन त्रि. विधमामनन्ति । यथा 'न भाति रमणीयोऽपि वैराग्येण विना यतिः । वैदुष्येण विना विप्रो नरलोकस्त्वया विना ॥' 'लावण्येन प्रमदा मदातिरेकेण वारणाधिपतिः । भाति विभवेन भवकान्राजन्भवता च वसुमतीवलयम् ॥' 'आखण्डलेन नाकः कुण्डलिकुलकुण्डलेन पातालम् । नरमण्डन रिपुखण्डन भवता भूमण्डलं विभातितमाम् ॥' एवं तुल्ययोगितायामप्यूह्यम् । वस्तुतस्तु धर्मस्यादिमध्यान्तगतत्वेऽपि चमत्कारवैलक्षण्याभावात्रैविध्योक्तिरापातमात्रात् । अन्यथा धर्मस्योपाद्युपमध्योपान्त्यगतत्वे ततोऽपि किंचिन्न्यूनाधिकदेशवृत्तित्वे चानन्तभेदप्रसङ्गात् । एवं केवलानुगामिसाधारणधर्मतायां दर्शितं दीपकम् । बिम्बप्रतिबिम्बभावेनाप्येतत्संभवति । यथा 'शीलभारवती कान्ता पुष्पभारवती लता। अर्थभारवती वाणी भजते कामपि श्रियम् ॥' 'लता कुसुमभारेण शीलभारेण सुन्दरी । कविता चार्थभारेण श्रयते कामपि श्रियम् ॥' नापत्तश्चेति । वैपरीत्यादिति भावः । गतत्वेन निष्ठत्वेन । रमणीयोऽपि श्रुताचारसंपन्नोऽपि । यतिः संन्यासी । राजवर्णनमिदम् । एवमग्रेऽपि । मदेति । मदोत्कर्षेणेत्यर्थः । वारणेति । गजेन्द्र इत्यर्थः । भवकानित्यकच्प्रत्ययः । भवानित्यर्थः । 'भगवान्' इत्यपपाठः । कुण्डलीति । सर्पसमूहकुण्डलेनेत्यर्थः । नरेत्यादि संबोधनद्वयम् । आमनन्तीति सूचितामरुचिमाह -वस्तुतस्त्विति । अन्यार्थवैलक्षण्याभावेऽपि भेदाङ्गोकारे। उपादीत्यादि । आदिसमीपेत्याद्यर्थः । उपसंहरति~एवमिति । इद For Private And Personal Use Only
SR No.020600
Book TitleRas Gangadhar
Original Sutra AuthorN/A
AuthorJagganath Pandit
PublisherNirnaysagar Yantralaya Mumbai
Publication Year1888
Total Pages533
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy