SearchBrowseAboutContactDonate
Page Preview
Page 332
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३१६ काव्यमाला। इयं चातिशयोक्तिवैदेऽपि दृश्यते । यथा'द्वा सुपर्णा सयुजा सखाया समानं वृक्षं परिषस्वजाते । तयोरन्यः पिप्पलं स्वाहत्यनभन्नन्यो अभिचाकशीति ॥" स्मृतौ च 'या निशा सर्वभूतानां तस्यां जागर्ति संयमी । यस्यां जाग्रति भूतानि सा निशा पश्यतो मुनेः ॥' अथास्या ध्वनिः 'देव त्वदर्शनादेव लीयन्ते पुण्यराशयः । किं चादर्शनतः पापमशेषमपि नश्यति ॥' पुण्यपापयोः सुखदुःखभोगमात्रनाश्यतया दर्शनादर्शनाभ्यां तज्जन्यसुखदुःखयो राश्यशेषशब्दाभ्यां च जन्मशतोपभोग्ययोस्तयोरेवाक्षेपादग्रिमाभ्यां पूर्वयोनिगरणं व्यज्यते । न च पूर्वाभ्यामग्रिमयोरेव निगरणं किं न स्यात्, इति वाच्यम् । नाशोक्तिसामञ्जस्याय नाशकतावच्छेदकावच्छिन्नत्वेन प्रत्ययस्यावश्यकतया तन्निगरणासंभवात् । उपमानेन महता क्षुद्रस्योपमेयस्य महत्त्वाधानाय निगरणस्यौचित्याच्च । एतेन 'तदप्राप्ति. महादुःख-' इत्यादि काव्यप्रकाशो व्याख्यातः । इति रसगङ्गाधरेऽतिशयोक्तिप्तकरणम् । त्यस्याक्षेपादित्यत्रान्वयः । तयोरेव सुखदुःखयोरेव । अग्रिमाभ्यां पूर्वयोरिति । जन्मशतोपभोग्यसुखदुःखाभ्यां देवदर्शनादर्शनजन्यसुखदुःखयोरित्यर्थः । न च पूर्वाभ्यामिति । दर्शनादर्शनजन्यसुखदुःखाभ्यामेव जन्मशतोपभोग्यसुखदुःखयोरित्यर्थः । नाशकतावच्छेदकेति । पुण्यराशिनाशत्वपापराशिनाशत्वरूपकार्यतावच्छेदकावच्छिन्नकारणतावच्छेदकं सकलजन्मोपभोग्यसुखत्वादिकमेव । न तु दर्शनजन्यसुखत्वादिकम् । तत्तत्सुखानां स्वस्वफलोपहितपुण्यनाशकताया एव कृप्तत्वादिति भावः । उपेति । जन्मशतोपभोग्यसुखदुःखे उपमानम् । महत्त्वात् । दर्शनादर्शनजन्ये च ते उपमेये । क्षुद्रत्वात् । ध्वनित्वं चात्र प्राचीनरीत्या बोध्यम् ।। इति रसगङ्गाधरमर्मप्रका. शेऽतिशयोक्तिप्रकरणम् ॥ For Private And Personal Use Only
SR No.020600
Book TitleRas Gangadhar
Original Sutra AuthorN/A
AuthorJagganath Pandit
PublisherNirnaysagar Yantralaya Mumbai
Publication Year1888
Total Pages533
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy