SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काव्यमाला । यथा वा'गिरं समाकर्णयितुं यदीयां सदा रसज्ञैरनुभावनीयाम् । समीहते नित्यमनन्यचेता नभस्वदात्मभरिवंशनेता ॥' यथा वा'तिमिरशारदचन्दिरतारकाः कमलविद्रुमचम्पककोरकाः। यदि मिलन्ति कदापि तदाननं खलु तदा कलया तुलयामहे ॥' पूर्वत्र निर्णीयमानः, इह तु संभाव्यमान इति विशेषः । तथान्यः प्रकारः-यत्र संबन्धेऽप्यसंबन्धः । यथा'पीयूषयूषकल्पामल्पामपि ते गिरं निपीतवताम् । तोषाय कल्पते नो योषाधरबिम्बमधुरिमोद्रेकः ।।' अत्र तोषसंबन्धेऽप्यसंबन्धः । एवमेवान्योऽपि प्रकारः—यत्र प्रयोजकस्य प्रयोज्यस्य च पौर्वापर्यविपर्ययः । स च द्वयोः सहभावासहभावात्, प्रयोजकस्य प्रयोज्यानन्तरभावाद्वेति द्वेधा । ___ आद्यो यथा-'प्रतिखरनिकरशिलातलसंघट्टसमुच्छलद्विद्युहल्लीकृतविस्फुलिङ्गच्छटापटलानां वाजिनाम्' इति हयवर्णने समुच्छलनविद्युदल्लीकरणयोः सहोत्पत्तिर्गम्यते । षष्ठया वा' इति समासः । यदीयामिति । प्रकृतवर्णनीयराजकीयामित्यर्थः । नभस्वदिति । नभस्वता वायुना आत्मानं विभ्रति ये सर्पास्तेषां वंशस्य कुलस्य नेता नायकः । शेष इत्यर्थः । अत्र तदाकर्णनसमीहासंबन्धेऽपि तदुक्तिस्तद्वैदुष्यातिशायिका । चन्दिरेति । चन्द्रेत्यर्थः । मिलन्ति एकत्र तिष्ठन्ति । तदाननं तस्या वाया नायिकाया मुखम् । कलया न तु सर्वांशेन । पूर्वत्र पूर्वयोः । इह त्विति । यदीत्यस्य संभावनाबोधकत्वादिति भावः । यथेति । पीयूषममृतमेव यूषो मण्डविशेषस्तेन ईषन्न्यूनाम् । ते वर्णनीयस्य राज्ञः । समुच्छलनेति । विस्फुलिङ्गानामित्यादिः । सहोत्पत्तिरिति । शतप्रत्ययेनेति भावः । 'शत्रा समुच्छलन' इति पाठे तु ततः प्रागडेति शेषः । वस्तुतः For Private And Personal Use Only
SR No.020600
Book TitleRas Gangadhar
Original Sutra AuthorN/A
AuthorJagganath Pandit
PublisherNirnaysagar Yantralaya Mumbai
Publication Year1888
Total Pages533
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy