SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir रसगङ्गाधरः। ३०१ 'सैषा स्थली यत्र विचिन्वता त्वां भ्रष्टं मया नूपुरमेकमुाम् । अदृश्यत त्वच्चरणारविन्दविश्लेषदुःखादिव बद्धमौनम् ॥ अत्रापि मौनहेतुत्वेन नूपुरे विश्लेषदुःखमुत्प्रेक्ष्यते । तत्र निश्चलत्वनिमित्तकनिःशब्दत्वाध्यवसितं मौनं निमित्तम् । विश्लेषदुःखसमानाधिकरणत्वे सति नूपुरवृत्तित्वात् । न तु निश्चलत्वनिमित्तके निःशब्दत्वे विषये विश्लेषदुःखहेतुकमौनमभेदेन । उत्प्रेक्षायामिवशब्दान्वितस्योत्प्रेक्ष्यताया उत्सर्गसिद्धत्वात् । विषयस्य निगीर्णतया विषयिणो विधेयत्वानुपपत्तेश्च । निमित्तान्तरगवेषणापत्तेश्च । यद्यप्येककालप्रभवत्वादिरस्ति साधारणो धर्मो निमित्तम् । तथापि तस्याचमत्कारित्वादुपमायामिवोत्प्रेक्षायामप्यप्रयोजकत्वात् । एवं फलोत्प्रेक्षायामपि बोध्यम् । एतेन 'यहा हेतुफलधर्मस्वरूपोत्प्रेक्षोदाहरणेष्वपि तादात्म्येनैवोत्प्रेक्षा' इति प्राचां मतमनुसरता द्रविडपुंगवेन यदुक्तं तदपि परास्तम् । ___ अलंकारसर्वस्वकृता तावदुत्प्रेक्षाया लक्षणमित्थं निगदितम्-'विषयनिगरणेनाभेदप्रतिपत्तिर्विषयिणोऽध्यवसायः। स च द्विविधः--सिद्धः, साध्यश्च । तत्र साध्यत्वप्रतीतौ व्यापारप्राधान्ये उत्प्रेक्षा । इति । अस्यार्थः-सिद्धत्वं निगीर्णविषयत्वम् । साध्यत्वं च निगीर्यमाणविषयत्वम् । यत्र हि सिद्धत्वं तत्राध्यवसितप्राधान्यम् । यथातिशयोक्त्याडौ । यत्र साध्यत्वं तत्र व्यापारस्याध्यवसानक्रियायाः प्राधान्ये उत्प्रेक्षा' इति । एवमभेदगर्भमुत्प्रेक्षालक्षणं विधाय "सैषा स्थली यत्र' इत्यत्र नपुरगतस्य मौनित्वस्य हेतुत्वेन दुःखं गुण उत्प्रेक्ष्यते । तत्र मौनित्वमेव नूपुरगतनिःशब्दत्वाभेदेनाध्यसितं निमित्तम् ।” इत्युक्तम् । एवं 'यत्र धर्म एव धर्मिन्तरमाह-तथेति । सैषेति । लङ्कात अयोध्यागमनावसरे सीतां प्रति श्रीरामचन्द्रोक्तिः । भ्रष्टमिति । पतितमित्यर्थः । तवेति शेषः । मौनं द्विविधम् -निश्चलत्वहेतुकं दुःखहेतुकं च । तयोरभेदमाह --तत्रेति । निःशब्दत्वाध्यवसितमिति । निःशब्दत्वे तादात्म्येनाध्यवसितमित्यर्थः । तस्योभयनिष्ठत्वमाह-विश्लेषेति । नन्वाकाङ्गादिना तत्रैवान्वयोऽस्तु, अत आह-विषयेति । ननु निगीर्णमादायैव तदत आह-निमित्तान्तरेति । उत्प्रेक्षेतीत्यस्य यदुक्तमित्यत्रान्वयः । द्रविडश्रेष्ठेनाप्पदीक्षितेनेत्यर्थः । अर्वाचां मतमाह-अलंकारेति । तत्र तयोर्मध्ये । एवमग्रेऽपि । तत्र For Private And Personal Use Only
SR No.020600
Book TitleRas Gangadhar
Original Sutra AuthorN/A
AuthorJagganath Pandit
PublisherNirnaysagar Yantralaya Mumbai
Publication Year1888
Total Pages533
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy