SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २८८ काव्यमाला। यगतयोः साहजिकलम्बत्वजलधिजठरप्रविष्टत्वयोरभेदाध्यवसानातिशयोक्त्या साधारण्यसंपत्तौ निमित्तता । न चात्र फलस्याप्युत्प्रेक्षणात्फलोत्प्रेक्षेति वक्तुं शक्यम् । उत्प्रेक्ष्यमाणफलनिष्पादितनिमित्तोत्थापितायां स्वरूपोत्प्रेक्षायामेवंविधेयत्वाच्चमत्कृतेर्विश्रामादुत्प्रेक्षाप्रतिपादकस्य प्रत्ययस्य फलेनानन्वयाञ्च तयैवात्र व्यपदेशो युक्तः । अनिगीणविषया चेयमुपात्तानुपात्तगुणक्रियात्मकनिमित्ता निष्पाद्यविशिष्टशरीरा जात्युत्प्रेक्षा । हिमगिरिभुजस्य कविनैव निप्पादितत्वात् । तादात्म्येन गुणस्वरूपोत्प्रेक्षा यथा'अम्भोजिनीबान्धवनन्दनायां कूजन्बकानां समजो विरेजे । रूपान्तराक्रान्तगृहः समन्तात्पुञ्जीभवशुक्क इवाश्रयार्थी ॥' अत्रैकाधिकरण्यापन्ने कूजनविशिष्टे बकत्वजात्यवच्छिन्ने विषये पुञ्जीभवनविशिष्टः शुक्लगुणस्तादात्म्येनोत्प्रेक्ष्यते । तत्र बकगतानां कूजननैर्मल्यपुञ्जीभवनानां शुक्लगुणगतत्वमन्तरेण बकशुक्लयोरभेदस्य दुरुपपादत्वात्तत्सिद्धये तेषां विषयिगतत्वं साध्यम् । तत्र नैर्मल्यस्यानुपात्तस्य यथाकथंचिदुत्प्रेक्ष्यमाणे विषयिणि सिद्धत्वात्कूजनपुञ्जीभवनयोर्निप्पादनाय रूपान्तराक्रान्तगृहत्वमाश्रयार्थित्वं च हेतुत्वेनोत्प्रेक्षितम् । इहापि प्राग्वत्साहजिकयोः कल्पिताभ्यामभेदाध्यवसानात्साधारण्यम् । एवमन्यत्राप्यूह्यम् । पूर्व हि यथा फलस्योत्प्रेक्षणेऽपि न फलोत्प्रेक्षा तथेहापि हेतोरिति । तनयमैनाकेत्यर्थः । विषयेति। भागीरथीत्यर्थः । विनिगमनाविरहादाह-उत्प्रेक्षेति । प्रत्ययस्य क्यङ: । उपसंहरति-तयैवेति । एवं चेत्यादि । स्वरूपोत्प्रेक्षयवेत्यर्थः । क्वचित् 'तथैव' इति पाठः । सोऽप्युक्तार्थक एव।अत्र भेदानुपपादयति-अनिगीणेति ।भागीरथ्या उपादानात् । उपात्तेति । इदं च यथासंभवं बोध्यम् । न तु यथासख्यम् । निष्पाद्यत्वे हेतुमाह-हिमेति । एवं चैकदेशस्य सिद्धत्वेऽपि विशिष्टस्य निष्पाद्यत्वं स्पष्टमेवेति भावः । अम्भोजिनीति । सूर्यकन्यायां यमुनायामित्यर्थः । समजः संघः । रूपान्तरेति । नीलादीत्यर्थः । ऐकाधिकरण्यापन्न इति । समुदायापन इत्यर्थः । तत्र तयोर्मध्ये । तत्सिद्धये शुक्लगुणगतत्वसिद्धये । तेषामुक्तधर्माणाम् । विषयीति । शुक्लगुणेत्यर्थः । यथाकथंचिदिति । नन्वेवं हेतृत्प्रेक्षैवेयं कुतो नात For Private And Personal Use Only
SR No.020600
Book TitleRas Gangadhar
Original Sutra AuthorN/A
AuthorJagganath Pandit
PublisherNirnaysagar Yantralaya Mumbai
Publication Year1888
Total Pages533
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy