SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २८२ काव्यमाला। 'अनल्पजाम्बूनददानवर्ष तथैव हर्ष जनयञ्जनेषु । दारिद्यधर्मक्षपणक्षमोऽयं धाराधरो नैव धराधिनाथः ॥' सावयवारोपेयमपहुतिः। आरोपमात्रोपायत्वे परम्परिताप्येषा संभवति । यथा 'मनुष्य इति मूढेन खलः केन निगद्यते । अयं तु सज्जनाम्भोजवनमत्तमतङ्गजः ॥' अस्याश्च ध्वनिर्यथा'दयिते रदनविषां मिषादयि तेऽमी विलसन्ति केसराः । अपि चालकवेषधारिणो मकरन्दस्टहयालवोऽलयः ॥' अत्र 'नैता रदनत्विषः, किं तु किंजल्कपरम्पराः । न चैतेऽलकाः, अपि त्वलयः' इति पूर्वोत्तरार्धाभ्यां द्वे अपहृती तावत्प्राकट्येनैव निवेदिते । ताभ्यां च 'न त्वं नारी, किं तु कमलिनी' इति तृतीयापह्नुतिर्व्यञ्जनव्यापारेण प्राधान्येन निवेद्यते। तत्संबन्धिवस्तुनिषेधारोपयोस्तनिषेधारोपनिवेदकत्वस्य न्याय्यत्वात्तुल्ययोगितानुगुणतया स्थिता । यत्त्वप्पदीक्षितैरपह्नुतिध्वनावुक्तम् "त्वदालेख्ये कौतूहलतरलतन्वीविरचिते __विधायैका चक्र रचयति सुपर्णीसुतमपि । अपि स्विद्यत्पाणिस्त्वरितमपमृज्यैतदपरा करे पोप्पं चापं मकरमुपरिष्टाच लिखति ॥' नन्तरं 'विधेयमिति दिक्' इति ग्रन्थः । अवयवरूपकसंकीर्णमुदाहरति-अनल्पेति । दानवर्षयो रूपकम् । दारिद्यरूपस्योष्मणो नाशने समर्थ इत्यर्थः । सावयवारोपेति । अवयवारोपसहितेत्यर्थः । तद्रूपकसहितेति यावत् । आरोपेति । आरोपस्येत्यादिः । दयित इति । व्याख्यातमिदं प्राक् । तावदादौ । अप्राधान्ये ध्वनित्वाभावादाहप्राधान्येनेति । तदिति । अवयवीत्यर्थः । ननु विलासस्पृहयालुत्वरूपक्रियागुणरूपधर्मेक्यस्य प्रकृताप्रकृतयोः सत्वेन तुल्ययोगितेवेयमत आह-तुल्येति । त्वदालेख्य इति । त्वत्प्रतिकृतिभूतचित्र इत्यर्थः । नायकं प्रति स्वसख्युक्तिः । एका तन्वी सखी। चक्रं सुदर्शनम् । सुपर्णीसुतं गरुडम् । अपि अथ । क्वचित्तथैव पाठः । अथ मानयोग्यत्वाय हेतुगर्भ विशेषणम्-स्विद्यत्पाणिरिति । अपरा तत्सखी । तस्यापि पुण्ड For Private And Personal Use Only
SR No.020600
Book TitleRas Gangadhar
Original Sutra AuthorN/A
AuthorJagganath Pandit
PublisherNirnaysagar Yantralaya Mumbai
Publication Year1888
Total Pages533
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy