SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org रसगङ्गाधरः । संकीर्णो यथा Acharya Shri Kailassagarsuri Gyanmandir यथा वा ' तुषारास्तापसवाते तामसेषु च तापिनः । गन्तास्ताडकाशत्रोर्भूयासुर्मम भूतये ॥' पूर्वपद्ययोर्विषयानेकत्वप्रयुक्तम्, इह त्वाश्रयानेकत्वप्रयुक्तमनेकविधत्वं दृगन्तानाम् । 'विद्वत्सु विमलज्ञाना विरक्ता यतिषु स्थिताः । स्वीयेषु तु गरोद्गारा नानाकाराः क्षितौ खलाः ॥' अत्र विद्वदादिसहचरभेदप्रयुक्तं खलानामनेकविधत्वम् । एवमन्येषां संबन्धिनां भेदेऽप्यूह्यम् । २७९ 'गगने चन्द्रिकायन्ते हिमायन्ते हिमाचले | ष्टथिव्यां सागरायन्ते भूपाल तव कीर्तयः ॥' अत्रोपमया आपाततः प्रतीयमानया पर्यवसितया चोत्प्रेक्षया । ‘उपरि करवालधाराकाराः क्रूरा भुजंगमपुंगवात् । अन्तः साक्षाद्राक्षादीक्षागुरवो जयन्ति केऽपि जनाः ॥ अत्रोपमाव्यतिरेकाभ्यां तयोः समुच्चयेनोत्प्रेक्षया च संकीर्णः । 'यमः प्रतिमहीभृतां हुतवहोऽसि तन्नीवृतां सतां खलु युधिष्ठिरो धनपतिर्धनाकाङ्क्षिणाम् । For Private And Personal Use Only मुदाहरति - यथा वेति । ताडकाशत्रोः श्रीरामस्य । समानाधिकरणानेकत्वं प्रत्युदाहरति - विद्वदिति । यथा वेत्यादि । यतिषु भिक्षुषु । गरोद्वारा विषोद्वारा: । आदिपदार्थमाह - एवमिति । उपमानात्क्यङो विधानादाह – अत्रोपमेति । तत्रातात्पर्यादाह - पर्यवेति । उत्प्रेक्षयेति । संकीर्ण इति शेषः । भुजंगमेति । सर्पश्रेष्ठादित्यर्थः । सप्तमीसमासः कर्मधारयो वा । द्राक्षेति । द्राक्षाया या माधुर्यदीक्षा तस्या गुरव इत्यर्थः । करवालेत्यत्रोपमा । क्रूरा इत्यत्र व्यतिरेकः । तयोरुपमाव्यतिरेकयोः । मुख इत्यत्राह - उत्प्रेक्षया चेति । द्वयोरुल्लेखयोः संकरमादिपदग्राह्यसंबन्धिभेदे प्रयुक्तत्वं च दर्शयितुमुदाहरति - यम इति । तन्नीवृतां प्रतिपक्षराजजनपदानाम् । कुलिशं वज्रम् । राजानं प्रति कव्युक्तिः । यमत्वादिना भ्रान्तिरपीति शरणेच्छूनां भ्रान्तिवर्णने राजोत्क आर्या पूर्वार्धे 'नेह भवति विषमे जः' इति नियमादत्र च विषमे सप्तमस्थाने जगणस्य सत्त्वाच्छान्दोभङ्गदूषितमेतदार्या पूर्वार्धमिति ज्ञेयम्. १.
SR No.020600
Book TitleRas Gangadhar
Original Sutra AuthorN/A
AuthorJagganath Pandit
PublisherNirnaysagar Yantralaya Mumbai
Publication Year1888
Total Pages533
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy