SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir रसगङ्गाधरः । अत्र निःशङ्क रन्तुमायाहीत्यर्थश्वरणत्रयव्यङ्गयोऽप्यवसरव्याहृतेर्व्याजत्वं ब्रुवता कविना स्फुटं स्वोक्त्या निवेदित इत्ययमपि न ध्वनेर्मार्गः " इत्याहुरानन्दवर्धनाचार्याः । २६३ तृतीयोद्योते च गुणीभूतव्यङ्गयनिरूपणे 'व्यङ्ग्यस्यार्थस्य यदि मनागयुक्त्या प्रकाशनं तदा गुणीभाव एव शोभते । तस्माद्यत्रोक्ति विना व्यङ्गयो ऽर्थस्तात्पर्येण प्रतीयते तत्र तस्य प्राधान्यानित्वम्' इति तद्युक्तिविवेचनेऽभिनवगुप्तपादाचार्याः । एवं चैवंविधेषु विषयेषु व्यञ्जकत्वस्य व्यङ्ग्यस्य वा मनागुक्तिसंस्प र्शमात्रेण ध्वनित्वं निराकुर्वाणाः 'कांचित्काञ्चनगौराङ्गी -' इति पद्ये शब्दाभिहितव्यङ्गचे ध्वनित्वं कथमिव स्वीकुर्वीरन् । एतेन 'दर्पणे च परिभो - गदर्शिनी' इति प्रागुक्तपद्ये लज्जाध्वनित्वं यद्दीक्षितैरभ्यधीयत तदप्यपास्तमिति दिक् । अस्मिश्च संशये नानाकोटिषु क्वचिदेक एव समानो धर्मः । कचित्टथक् । सोऽपि क्वचिदनुगामी, क्वचिद्विम्बप्रतिबिम्बभावमापन्नः क्वचि - दनिर्दिष्टः क्वचिन्निर्दिष्टः । तत्र 'मरकतमणिमेदिनीधरो वा' इति प्रागुदाहृतपद्ये श्यामाभिरामत्वं धर्मिणो रामस्य कोट्योश्च तमालमरकतभूधरयोरेक एवानुगामी धर्मः प्रतीयमानत्वादनिर्दिष्टः । स एव निर्दिष्टो यथा - 'नेत्राभिरामं रामाया वदनं वीक्ष्य तत्क्षणम् । सरोजं चन्द्रविम्बं वेत्यखिलाः समशेरत ॥' अत्र नेत्राभिरामत्वरूपस्त्रिष्वेक एवानुगामी धर्मों निर्दिष्टः । ष्टथगनुगामी निर्दिष्टो यथा प्रागुदाहृते 'आज्ञा सुमेषोः' इत्यादौ । यथा वा 'संपश्यतां तामतिमात्रतन्वीं शोभाभिरामासितसर्वलोकाम् | सौदामनी वा सितयामिनी वेत्येवं जनानां हृदि संशयोऽभूत् ॥ For Private And Personal Use Only जपूर्वमित्यर्थः । पूर्वोदाहरणाशयेनाह - व्यञ्जकेति । द्वितीयाशयेनाह - व्यङ्कयेति । तत्र तेषां धर्माणां मध्ये | श्यामेति । तद्विशिष्टाभिरामत्वमित्यर्थः । स एव अनुगाम्येव । नेत्रेति । तयोरभिराममित्यर्थः । समेति । संशयं कृतवन्तः । एवमग्रेऽपि । पृथगिति ।
SR No.020600
Book TitleRas Gangadhar
Original Sutra AuthorN/A
AuthorJagganath Pandit
PublisherNirnaysagar Yantralaya Mumbai
Publication Year1888
Total Pages533
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy