________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२५६
काव्यमाला। शब्दशक्तिमूलपरिणामध्वनिर्यथा
'पान्थ मन्दमते किं वा संतापमनुविन्दसि ।
पयोधरं समाशास्व येन शान्तिमवाप्नुयाः ॥' अत्र झगिति तापशमनहेतुत्वेनोपस्थिते पश्चान्मन्दबोधनीयविशेष्यकस्मरतापवत्तावैविष्टयबुद्धौ सत्यां सहृदयस्य तादृशतापशामकरमणीस्तनरूपविषयतादूप्यबुद्धिर्भवति । दोषाश्चात्रापि पूर्ववदुन्नेयाः ।
इति रसगङ्गाधरे परिणामप्रकरणम् । अथ ससंदेहः
सादृश्यमूला भासमानविरोधका समबला नानाकोट्यवगाहिनी धी रमणीया ससंदेहालंकृतिः।
'अधिरोप्य हरस्य हन्त चापं परितापं प्रशमय्य बान्धवानाम् ।
परिणेष्यति वा न वा युवायं निरपायं मिथिलाधिनाथपुत्रीम् ॥' अत्र मिथिलास्थजनोक्तो तच्चिन्ताभिव्यञ्जके संशयमात्रेऽतिव्याप्तिवारणाय सादृश्यमूलति । सादृश्यज्ञानरूपदोषजन्येत्यर्थः । तेन 'सिंहवत्तान्तरं गच्छ गृहं सेवस्व वा श्ववत्' इत्युपमाविकल्पे वाकारप्रतीतविरोधकप्रान्तरगमनगृहसेवनरूपनानाधर्मावगाहिनि सादृश्यविषयकेऽपि नातिप्रसङ्गः । तस्य सादृश्यज्ञानरूपत्वात् । मालारूपकातिप्रसङ्गवारणाय भासकत्वेन स्वरूपेण तस्य तापजनकत्वादिति भावः । अयं तु इन्दुनेत्युदाहृतः । झगिति आदौ। आतपादिकृतसंतापशामकमेघत्वेन तस्योपस्थितेरिति भावः । दोषाश्चेति । लिङ्गभेदादय इत्यर्थः ।। इति रसगङ्गाधरमप्रकाशे परिणामप्रकरणम् ॥ ___ संशयं लक्षयति-अथेति। धी रमणीयेति । तादृशधीवृत्तिसंशयत्वप्रकारकज्ञानविषया सालंकार इत्यर्थः । सादृश्यमूलत्यस्य व्यावय॑माह-अधीति। हन्तेति खेदे । बान्धवानां विश्वामित्रादीनाम् । निरपायं निष्प्रतिबन्धकम् । क्रियाविशेषणमेतत् । तदिति । तादृशजनेत्यर्थः । मात्रपदेनालंकारत्वव्यवच्छेदः। यद्यप्यधिरोप्येति पये संशयस्य न सादृश्यमूलत्वमिति यथाश्रुतेनैव वारणं संभवति, तथाप्यन्यत्राप्यदोषायाहसादृश्येति । तव्द्यावय॑माह-तेनेति। तथार्थविवक्षया नेत्यर्थः । प्रान्तरमरण्यम् । यथाश्रुतेऽतिप्रसङ्गमाह-वाकारेति । अपिः प्रागक्तसमुच्चायकः । तेनेत्यस्यार्थमाहतस्येति । उपमाविकल्पस्थेत्यर्थः । मालारूपकेति । 'धर्मस्यात्मा भागधेयं क्षमायाः सारः सृष्टेः' इत्यादावित्यर्थः । ननु कोट्योः समबलत्वविशेषणेन कथमुत्प्रेक्षाव्यावृत्तिः,
For Private And Personal Use Only