SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra २३८ प्रातिकूल्ये यथा यथा वा www. kobatirth.org ------ काव्यमाला | 'आनन्दमृगदावाग्मिः शीलशाखिमदद्विपः । ज्ञानदीपमहावायुरयं खलसमागमः ॥' Acharya Shri Kailassagarsuri Gyanmandir ' कारुण्यकुसुमाकाशः शान्तिशैत्यहुताशनः । यशः सौरभ्यलशुनः पिशुनः केन वर्ण्यते ॥ एकत्र नाश्यनाशकभावरूपमपरत्र चात्यन्तिकसंसर्गशून्यतारूपं प्रातिकूल्यमुपमानयोस्तथैवोपमेययोश्च । अनुग्राह्यानुग्राहकभावः पुनरारो पयोरविशिष्ट एव । तथा 'अयं सज्जनकार्पासरक्षणैक हुताशनः । परदुःखाग्निशमनमारुतः केन वर्ण्यते ॥' अत्र रक्षणशमनपदे विरोधिलक्षणया विपरीतार्थबोधके । एवं पदार्थरूपकं लेशतो निरूपितमेव । वाक्यार्थे विषये वाक्यार्थान्तरस्यारोपे वाक्यार्थरूपकम् । यथाहि विशिष्टोपमायां विशेषणानामुपमानोपमेयभाव आर्थस्तथात्रापि वाक्यार्थकानां पदार्थानां रूपकमर्थावसेयम् । 'आत्मनोऽस्य तपोदानैर्निर्मलीकरणं हि यत् । क्षालनं भास्करस्येदं सारसैः सलिलोत्करैः ॥' अत्रात्मनि तपोदानेषु चारोपविषयविशेषणतया विम्बभूतेषु भास्करस्य ऽध्यतात्पर्यविषयत्वान्न तमादाय मुखरूपकव्यवहारः । किं चात्र पूर्वपदार्थप्रधानमयूरव्यंसकादिसमासेन चन्द्रपुण्डरीकाद्यभेदस्यैव मुखशश्यादौ भानान्न दोषः । अत एव 'विशेव्यस्य पूर्वनिपातार्थमिदम्' इति भाष्यकृतः । एवं च वाच्यतापि चन्द्ररूपकस्य " इत्याहुः । अपरे तु "चन्द्रनिष्ठाभेदश्चन्द्रप्रतियोगिकाभेदश्च रूपकम् । अत एव ' तद्रूपक्रमभेदो य उपमानोपमेययोः' इत्युक्तं प्रकाशे । यद्वा विषयिनिष्ठाभेदप्रत्यापितितो ( ? ) यत्र विषयस्य रञ्जनमित्येव लक्षणार्थः । एवं च मुखप्रतियोगि काभेदेवांश्चन्द्र इत्येवंबोधेऽपि न क्षतिः" इत्याहु: । तत्र पदार्थरूपकाणां मध्ये । परस्परमित्यस्य मध्यमणिन्यायेनोभयत्रान्वयः । लक्ष्यान्तरदाने बीजमाह - एकत्रेति । आये इत्यर्थः । अयं पिशुनः । अर्थासेयमार्थिकम् । एतल्लक्ष्यमाह - आत्मन इति । सारसैः सरः संबन्धिभिः । 'सलिलो For Private And Personal Use Only
SR No.020600
Book TitleRas Gangadhar
Original Sutra AuthorN/A
AuthorJagganath Pandit
PublisherNirnaysagar Yantralaya Mumbai
Publication Year1888
Total Pages533
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy