SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir रसगङ्गाधरः। २३५ कश्चित्तु बह्वारोपात्मकात्सावयवादारोपद्वयात्मकमेवास्य वैलक्षण्ये बीजमित्याह । 'काव्यं सुधा रसज्ञानां कामिनां कामिनी सुधा। धनं सुधा सलोभानां शान्तिः संन्यासिनां सुधा ॥' अत्र विषयमालाळतो न कश्चिञ्चमत्कारविशेष इति न पृथग्भेदगणनायां गण्यते । आरोप्यमाणमाला तु चमत्कारविशेषशालित्वाद्गण्यत एव । अथ कथं नाम श्लिष्टपरम्परिते 'कमलावासकासारः' इत्यादावेकस्यारोपस्यारोपान्तरोपायत्वम् । यतः श्लेपेण कमलानामावासस्य कमलाया वासस्य चाभेदमात्रमत्र प्रतीयते । नैकत्रान्यारोपः । तस्य स्वतन्त्रविषयनिदेशापेक्षत्वात् । न च शुद्धाभेदप्रत्यय एवारोपः । विषयनिगरणात्मिकायामतिशयोक्तावपि तत्प्रसङ्गात् । न च शुद्धाभेदप्रत्ययेनात्रार्थः यत्संबन्धिनि यत्संबन्ध्यभेदस्तस्मिंस्तदभेद इति । 'कमलावासकासारः' इत्यादौ राजनि कासारारोपो राजसंबन्धिनि लक्ष्म्याश्रयत्वे कासारसंबन्धिसरोजाश्रयत्वाभेदारोपेण समर्थयितुं शक्यः । श्लेषेण तु पुनर्लक्ष्म्याश्रयत्वसरोजाश्रयत्वयोरभिन्नत्वेन प्रत्ययादभिन्नधर्मनिबन्धनो राजकासारयोरप्यभेदप्रत्ययः स्यात् । न तु राजविषये कासारविषयिकस्यारोपस्य प्रकृतस्य सिद्धिः । इमावभिन्नावित्याद्याकारस्य शुद्धाभेदप्रत्ययस्याप्रकृतत्वात्प्रागुक्त आरोपो मृग्यः । स च न श्लेषसाध्य इति सत्यम् । श्लेषेण शुद्धाभेदप्रतीतो सत्यां प्रकृतारोपसमर्थनायान्तरा मानसस्य राजसंबन्धिनि कासा'तत्र सावयवे सिद्धिः' इति पाठः। अनलसमारोपमिति। राज्ञीति शेषः । कश्चित्विति । अत्रारुचिबीजं तु प्रागुक्तरीत्या निर्वाह इति । विषयमालाकत इति । एकस्यापमेयस्य नानोपमानकृत इत्यर्थः । या माला । तस्यैकत्रान्यारोपस्य नानुपपत्तिरिति । अत्रेदं चिन्त्यम्--कमलावासेनायं राजा कासार इत्यादौ यथा श्लेषमूलकाभेदाध्यवसानेनैनं साधारणधर्ममादाय राजकासारयो रूपकस्य गाम्भीर्येण समुद्रोऽयमित्यादाविव संभवस्तद्वत्कमलावासकासार इत्यादावपि संभवात्किमर्थोऽयं क्लेश: । साधारणधर्मज्ञानस्य चाभेदारो. पप्रयोजकत्वात् । इदमेव चास्योपापत्वमारोपे(?) एतन्मलीभूतसाधारणधर्मसंपत्तिः (साधारणधर्मसंपत्तिः) आरोपेणैवेत्यत्र न किंचिन्मानम् । समर्थके रूपकत्वव्यवहारस्तु भाक्तः । तदापि श्लिष्टेषु सादृश्यमूलकत्वाभावादावश्यकः । एवं च 'कारुण्यकुसुमाकाश: For Private And Personal Use Only
SR No.020600
Book TitleRas Gangadhar
Original Sutra AuthorN/A
AuthorJagganath Pandit
PublisherNirnaysagar Yantralaya Mumbai
Publication Year1888
Total Pages533
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy