SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra तत्र - www. kobatirth.org रसगङ्गाधरः । Acharya Shri Kailassagarsuri Gyanmandir २३१ परस्परसापेक्षनिष्पत्तिकानां रूपकाणां संघातः सावयवम् । तत्रापि - समस्तानि वस्तून्यारोप्यमाणानि शब्दोपात्तानि यत्र तत्समस्तवस्तुविषयम् । यत्र च कचिदवयवे शब्दोपात्तमारोप्यमाणं कचिचार्थसामर्थ्याक्षिप्तं तदेकदेशे शब्दानुपात्तविषयिके अवयवरूपके विवर्तनात्स्वस्वरूपगोपनेनान्यथात्वेन वर्तनादेकदेशविवर्ति । यद्वा एकदेशे उपात्तविषयिके अवयवे विशेषेण स्फुटतया वर्तनादेकदेशविवर्ति । समस्तवस्तुविषयं सावयवं यथा 'सुविमलमौक्तिकतारे धवलांशुकचन्द्रिकाचमत्कारे । वदन परिपूर्णचन्द्रे सुन्दरि राकासि नात्र संदेहः ॥' अत्र समुदायात्मकस्य सावयवरूपकस्यावयवानां सर्वेषामपि वस्तुतः समर्थ्य समर्थक भावस्य परस्परं तुल्यत्वेऽपि कवे राकारूपस्यैव समर्थ्यत्वेनाभिप्रेतत्वात्समर्थक तयोपादानमितरेषामिति गम्यते । एवं स्थिते समर्थकरूपकाणां विषयविषयिणोः पृथग्विभक्तेरश्रवणादनुवाद्यत्वेऽपि समर्थ्य - रूपकस्य तयोः ष्टथग्विभक्तिश्रवणाद्विधेयतया तदादाय संघातात्मकस्य सावयवरूपकस्यापि विधेयत्वमत्र व्यपदिश्यते । भटसंघातान्तर्गतस्य मुख्यस्य कस्यापि भटस्य जयपराजयाभ्यां भटसंघातो जितः पराजित - त्युच्यते । For Private And Personal Use Only 1 तत्सूचितारुचिस्त्वग्रे स्फुटीभविष्यति । यत्र च यत्र तुसंघातात्मकसावयवरूपके । अव - यवरूपके इति । रूपकसंघातस्यावयविनोऽवयवे कस्मिंश्चिद्रूपक इत्यर्थः । विवर्तनादिति । विरुद्धतया वर्तनादित्यर्थः । विरुद्धत्वमेवाह - स्वेति । विनिगमनाविरहादाहद्वेति । अवयवे अवयवरूपके | अवयवानां मुक्तानक्षत्रवस्त्र ज्योत्स्ना मुखचन्द्रनायिकापूर्णिमारूपाणाम् | अभिप्रेतेति । विधेयत्वेन वर्ण्यत्वादिति भावः । तयोर्विषयविषयिणोः । तदादाय तदीयविधेयत्वमादाय । अत्र पद्ये । अन्यधर्मेणान्यत्र व्यपदेशे मान
SR No.020600
Book TitleRas Gangadhar
Original Sutra AuthorN/A
AuthorJagganath Pandit
PublisherNirnaysagar Yantralaya Mumbai
Publication Year1888
Total Pages533
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy