SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org २२२ काव्यमाला | भगवत्सदृशस्य स्मरणेन जनितं भगवतः स्मरणं भगवद्विषयरतिभावाङ्गम् । यदि च 'सदृशानुभवात्' इत्यपहाय 'सदृशज्ञानात्' इति लक्षणे निवेश्यते तदा भवत्यस्यापि संग्रह इति दिक् । अथास्य ध्वनिः । Acharya Shri Kailassagarsuri Gyanmandir यथा 'इदं लताभिः स्तबकानताभिर्मनोहरं हन्त वनान्तरालम् । सदैव सेव्यं स्तनभारवत्यो न चेद्यवत्यो हृदयं हरेयुः ॥' अत्र स्तबकानताभिर्लताभिः स्तनभारवतीनां युवतीनां स्मरणमलंकार्यस्यान्यस्याभावादनुपसर्जनम्, स्तनस्तवकरूपस्य विम्बप्रतिविम्वभावमापन्नस्य साधारणधर्मस्य वाच्यत्वेऽपि तत्प्रयोजितसादृश्यमूलकस्य स्वस्य शब्दवाच्यत्वविरहाद्व्यङ्गयं च युवत्य इति च 'सर्वतो क्तिन्नर्थात्' इति ङीषि साधुः । यथा वा यथा 'इदमप्रतिमं पश्य सरः सरसिजैर्ऋतम् । सखे मा जल्प नारीणां नयनानि दहन्ति माम् ॥' अत्रापि सरसिजज्ञानाधीनतत्सदृशनयनस्मृतिः प्राधान्येन ध्वन्यते । अथास्मिन्स्मरणालंकारे उपमादोषाः प्रायशः सर्व एव दोषाः । विशेषतश्च नियमेनास्मिन्व्यज्यमानसादृश्यके सादृश्यस्य शब्दवाच्यतायां दोषः । 'उपकारमस्य साधोर्नैवाहं विस्मरामि जलदस्य । दृष्टेन येन सहसा निवेद्यते नवघनश्यामः ।' वैस्वरत्ना]करयोर्ग्रन्थयोः । अध्यक्षैः प्रत्यक्षः । अथ प्रत्यक्षानन्तरम् । अनुपसर्जनमिति । प्रधानमित्यर्थः । एवमलंकारत्वं निरस्य ध्वनित्वमुपपादयितुमाह - स्तनेति । स्वस्य स्मरणस्य । व्यङ्गयं च स्मरणमिति पूर्वत्रान्वयः । ङीपि साधुरिति यातेः शत्रन्तात् ङीष्यपि साधुत्वं भवति । 'सर्वत - ' इत्येतत्पर्यन्तानुधावनं व्यर्थ दुष्टं चेति प्रपश्चितमन्यत्र । व्यज्येति । अर्थाप्रतीयमानसादृश्यक इत्यर्थः । अत्र स्मरणालंकारे । अस्योपादानादावेवान्वयः । दानयोः सतोरिति शेषः । अत्रापि स्मरणालंकारेऽपि । स्पष्टत्वाय पुनरुक्तिः । प्रतीयमानो गम्यमानः । साक्षादुपमानोपमेयविशेषणत्वेन । यथेति । For Private And Personal Use Only
SR No.020600
Book TitleRas Gangadhar
Original Sutra AuthorN/A
AuthorJagganath Pandit
PublisherNirnaysagar Yantralaya Mumbai
Publication Year1888
Total Pages533
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy