SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २१६ काव्यमाला। रामुखे प्रतीयमानस्यापि सामान्यविशेषभावस्य परिणामे सादृश्य एव विश्रान्तेः ॥” इत्यप्याहुः॥ इति रसगङ्गाधर उदाहरणप्रकरणम् । सादृश्यज्ञानोबुद्धसंस्कारप्रयोज्यं स्मरणं स्मरणालंकारः। यथा'दोर्दण्डद्वयकुण्डलीकृतलसत्कोदण्डचण्डध्वनि____ध्वस्तोद्दण्डविपक्षमण्डलमथ त्वां वीक्ष्य मध्येरणम् । वल्गद्गाण्डिवमुक्तकाण्डवलयज्वालावलीताण्डव भ्रश्यत्खाण्डवरुष्टपाण्डवमहो को न क्षितीशः स्मरेत् ॥' यथा वा'भुजभ्रमितपटिशोदलितहप्तदन्तावलं भवन्तमरिमण्डलक्रथन पश्यतः संगरे । अमन्दकुलिशाहतिस्फुटविभिन्न विन्ध्याचलो ___ न कस्य हृदयं झगित्यधिरुरोह देवेश्वरः ॥' अनयोः पद्ययोः प्रधानीभूताया राजविषयकविनिष्ठरतेरुत्कर्षकतया स्मरणमलंकारः । आद्ये वाच्यम्, द्वितीये तु लक्ष्यमिति विशेषः । वीररसोऽपि चात्र प्रधानोत्कर्षकतयालंकार एव । 'एकीभवत्प्रलयकालपयोधिकल्प __ मालोक्य संगरगतं कुरुवीरसैन्यम् । · सस्मार तल्पमहिपुंगवकायकान्तं निद्रां च योगकलितां भगवान्मुकुन्दः ॥' स्मकावयवावयविभावबोधकत्वेन कथं तदुल्लासोऽत आह-इवेति । आमुखे आदौ ॥ इति रसगङ्गाधरमर्मप्रकाश उदाहरणप्रकरणम् ॥ त्वां प्रकृतं राजानम् । मध्यरणमिति । रणमध्ये इत्यर्थः । वल्गन्मनोहरम् । पाण्डवमर्जुनम् । दन्तावलो हस्ती। अरिमण्डलक्रथनेति संबोधनम् । अमन्देति । तीक्ष्णेत्यर्थः । 'कराल' इति द्विः पाठः । झगिति झटिति । देवेश्वर इन्द्रः । रतेर्भावस्य । लक्ष्यद्वयदाने बीजमाह-आये इति । स्मरणमित्यस्यानुषङ्गः। लक्ष्यमिति । अधिरोहतेर्लक्ष्यमित्यर्थः । नन्वेवमपि वीररसस्यानयोः प्राधान्येन राजनिष्ठस्य सत्वाद्धनित्वमेवात आह-वीरेति । प्रधानोत्कर्षेति । कविनिष्ठरत्युत्तरेत्यर्थः । अलमिति । रस- . For Private And Personal Use Only
SR No.020600
Book TitleRas Gangadhar
Original Sutra AuthorN/A
AuthorJagganath Pandit
PublisherNirnaysagar Yantralaya Mumbai
Publication Year1888
Total Pages533
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy