SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २०६ .. काव्यमाला। एवम्'लङ्कापुरादतितरां कुपितः फणीव निर्गत्य जातु पृतनापतिभिः परीतः । क्रुद्धं रणे सपदि दाशरथिं दशास्यः ___ संरब्धदाशरथिदर्शमहो ददर्श ॥' एवं कर्तृणमुलादावप्यूह्यम् । 'अम्बरत्यम्बरं यद्वत्समुद्रोऽपि समुद्रति । विक्रमार्कमहीपाल तथा त्वं विक्रमार्कसि ॥ अत्र वाक्यार्थावयवेष्वनन्वयेषु धर्मवाचकयोलोपः । मुखवाक्यार्थस्त्वनन्वयफलेन निरुपमत्वेन समानधर्मेण प्रयोजितो मालोपमैव । एषा च ज्ञानसौकर्यायात्रैव निरूपिता। 'एतावति प्रपञ्चेऽस्मिन्सदेवासुरमानुषे । केनोपमीयतां तज्जै रामो रामपराक्रमः ॥' अत्र वाचकधर्मोपमानां लोपः । अत्र चोपमानलुप्तादयोऽन्ये भेदा असंभवादहृद्यत्वाच्च नोदाहृताः । ___ यत्तु-"तेन तदेकदेशेनावसितभेदेन वा उपमानतया कल्पितेन सादृश्यमनन्वयः। उपमेयेनैवोपमानतया कल्पितेनोपमेयस्यामुखावभासमानसाधापादनमेकोऽनन्वयः। उपमेयैकदेशस्य तथैवोपमानताकल्पनमपरः। उपमेयस्यैव प्रतिबिम्बत्वादिनाभेदेनावसितस्य तत्वकल्पनं तृतीयः। आद्यो यथा-'युद्धेऽर्जुनोऽर्जुन इव प्रथितप्रतापः' इत्यादि । हरति-एवं लङ्केति। ईदृशो दशास्यो रणे क्रुद्धं सपदि दाशरथि संरब्धदाशरथितुल्यं ददर्शेत्यर्थः । संरब्धदाशरथिरिव दृश्यते इति कर्मणि णमुल् । धर्मवाचकलुप्तमुदाहरति-- अम्बेति । अत्र सर्वत्राचारे क्विप् । अम्बरमाकाशम् । ननु कोऽसौ वाक्यार्थी यदवयवास्त्रयोऽनन्वया अत आह-मुख इति । मुख्य इत्यर्थः । 'मुख्य' इति पाठस्तूचितः । ननु मालोपमा नैवास्ति पूर्वमनुक्तत्वादत आह-एषा चेति । मालोपमा चेत्यर्थः । अत्रैव अनन्वयप्रकरण एव । वाचकधर्मोपमानलुप्तमुदाहरति-एतेति । तज्ज्ञै रामस्वरूपज्ञैः । न्यूनतां निराचष्टे-अत्र चेति। संभवेऽप्याह-अहोति। तेनेत्यस्यार्थमाह-उपेति। अमुखेति । अमुख्येत्यर्थः । तदेकदेशेनेत्यस्यार्थमाह-उपेति । तथैव उपमेयवत् । अवसितभेदेनेत्यस्यार्थमाह-उपेति । प्रतिबिम्बोऽत्र लौकिकः । अवसितस्य निश्चि. For Private And Personal Use Only
SR No.020600
Book TitleRas Gangadhar
Original Sutra AuthorN/A
AuthorJagganath Pandit
PublisherNirnaysagar Yantralaya Mumbai
Publication Year1888
Total Pages533
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy