SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १९८ काव्यमाला। आर्थे तु वाक्यभेदे'अभिरामतासदनमम्बुजानने नयनद्वयं जनमनोहरं तव । इयति प्रपञ्चविषयेऽपि वैधसे तुलनामुदश्चति परस्परात्मना ॥ अत्र परस्परात्मना तुलनामुदश्चतीति संक्षिप्ताद्वाक्यादिदमेतेनैतच्चानेन तुलनामुदश्चती वाक्यद्वयं विचारकमुल्लसते । एवं पूर्णालुप्तादयोऽप्यस्या उपमाया इव प्रायशः सर्वेऽपि भेदाः संभवन्ति । ते चामुयैव दिशा सुबुद्विभिरुन्नेतुं शक्या इति नेह निरूप्यन्ते । चित्रमीमांसाहतस्तु प्राचीनं लक्षणमव्याप्त्यतिव्याप्त्यादिभिर्द्वषयित्वा 'अन्योन्येनोपमा बोध्या व्यक्त्या वृत्त्यन्तरेण वा । एकधर्माश्रया या स्यात्सोपमेयोपमा मता ॥' इति स्वयं लक्षणमाहुः । अस्यार्थः संक्षेपेण सपदकत्यस्तदुक्तरीत्या सहृदयानां सौकर्यायोच्यते--अन्योन्येनेति । अन्योन्यप्रतियोगिकत्वविशिष्टाव्यक्त्या व्यञ्जनाव्यापारेण वृत्त्यन्तरेण शक्त्या वा बोध्या वेद्या एकधर्माश्रया एकधर्मप्रयोज्या या उपमा सा उपमेयोपमा मतेत्यन्वयः । अन्योन्येनेति विशेषणादिदं तच्च सममित्युभयविश्रान्तोपमाया निरासः । अत्रान्योन्यप्रतियोगिकत्वस्य व्यञ्जनव्यापारमात्रगम्यत्वेनोपमायाश्च शक्तिवेद्यतया परस्परनिरपेक्षेणैकेन व्यापारेणान्योन्यप्रतियोगिकत्वविशिष्टायास्तस्या अबोधनात्, परस्परनरपेक्षस्यात्र वाकारेणाभिधानात्, एकध व्यज्येति । वाक्यभेद इति । उदाहियत इति शेषः । वैधसे विधानिर्मिते । उदञ्चति प्रकाशयति । परस्परात्मना परस्पररूपतया । इदं नयनम् । एतेन नयनेन । एवमग्रेऽपि । विचारकमिति । विवरणरूपमित्यर्थः । एवमनुगाम्यादिधर्मभेदवत् । अस्या उपमेयोपमायाः । असंभावितभेदवारणाय प्रायश इति । दिशा रीत्या। प्राचीनेति । 'उपमानोपमेयत्वं द्वयोः पर्यायतो यदि । उपमेयोपमा सा स्यादिविधैषा प्रकीर्तिता ॥' इत्यर्थः । अव्याप्तीति । 'तद्वल्गुना युगपदुन्मिषितेन तावत्' इत्यत्राव्याप्तिः । 'रजोभिः स्यन्दनोद्ध तैः' इत्यत्रातिव्याप्तिरिति भावः । तृतीयार्थः प्रतियोगित्वमित्याशयेनाहअन्योन्यप्रतीति । लक्षणाया असंभवादाह-शक्त्येति । इवादिसत्त्वे इति भावः । विश्रान्तेति । उभयत्र पर्यवसिता न श्रौती तस्यामित्यर्थः । शक्तीति । सप्तपदे (१). त्यादिः । ननु मिथो निरपेक्षत्वं न निविष्टमत आह-परस्परेति । अन्यथा पक्षान्त. For Private And Personal Use Only
SR No.020600
Book TitleRas Gangadhar
Original Sutra AuthorN/A
AuthorJagganath Pandit
PublisherNirnaysagar Yantralaya Mumbai
Publication Year1888
Total Pages533
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy