SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १८८ काव्यमाला। श्रय इत्येव गज इव गच्छतीत्यत्र धीः । कारकोपादाने तूपमानपदानां तत्कर्तृकक्रियायां लक्षणेत्येव साधु । न च प्रागुक्तकार्यकारणभावस्य धात्वर्थनिवृन्यादेर्व्यभिचारः । तस्यानङ्गीकारात् । अङ्गीकारे च तूष्णीमारात्ष्टथगित्याद्यर्थानां धात्वर्थान्वयोऽनुभवसिद्धोऽपलपनीयः स्यात् । कथं तर्हि घटो न पश्यतीत्यादौ घटाभावं पश्यतीति नान्वयबोधः । धात्वर्थनिष्ठविशेष्यतानिरूपितप्रकारतासंसर्गेणान्वयबोधं प्रति नञ्जन्योपस्थितिमात्रस्य प्रतिबन्धकत्वकल्पनात् । धात्वर्थस्य नामार्थभिन्नत्वेन विशेषणं तु द्वयोस्तुल्यम् । तेन पाको न याग इत्यादौ न व्यभिचारः । इत्यलमप्रसक्तविचारेण । - अथारविन्दतुल्यो भातीत्यत्र कथं धीः । तुल्यपदार्थस्य निपातभिन्ननामार्थत्वेन धात्वर्थे भेदेनान्वयायोगात् । तादृशतुल्यत्वादेर्भानोद्देश्यतावच्छेदकत्वे भानमात्रविधेयतायां विवक्षितार्थाप्रतीतिः । न च तुल्यपदेन तुल्यत्वप्रकारको लक्षणयोपस्थापितो ह्यभेदेन धात्वर्थेऽन्वेष्यतीति वाच्यम् । क्रियाविशेषणत्वेनारविन्दतुल्यशब्दस्य नपुंसकत्वापत्तेरिति चेत्, व्याकरणस्य सिद्धानुवादकत्वेन स्तोकं पचतीत्यादिमात्रविषयत्वेन क्रियाव्ययविशेषणानां क्लीबतेष्यते इत्यस्योपपत्तेः । धातोरेव लक्षणया सकलार्थबोधकत्वभितरस्प तात्पर्यग्राहकतेत्यपि केचित् । अरविन्दवत्सुन्दरमित्यत्र च्छतीत्यत्र चेवेन गमनान्वित एव शूरत्वादिधर्मत्वेन बोध्यते । पुरुषो यः स गच्छतीत्यत्र तु गमनमेव तथेति तयोविशेषोऽप्युपपद्यत एव । उपमाया विधेयत्वं चैतदेव यद्विधेयस्यैव धर्मत्वेनोपमाबोधकबोध्यत्वमिति चिन्त्यमिदम् । वैयाकरणनये तु क्रिययोरेवोपमानोपमेयभावः । गच्छतीत्यस्य चावृत्योभयत्रान्वयः । गजादिपदानां स्वकर्तृकक्रियायां लक्षणा वेति दिक् । कारकोपेति । कळदीत्यर्थः । अङ्गीकारे दोषमाह-अझीति। उक्तदोषमुद्धरति-कथमिति । मात्रपदेनेतरनिपातव्यवच्छेदः । कथमिति । भेदेना. भेदेन वेत्यर्थः । तत्र नाद्य इत्याह-तुल्येति । उक्तव्युत्पत्तेरिति भावः । नाप्यभेदेने. त्याहन चेति । धात्वर्थे भानरूपे । उपपत्तेरिति । तथा चोक्तरीत्या अभेदेनैवान्वय इति भावः । मतान्तरमाह-धातोरेवेति । तथा च तस्य तादृशो विशिष्ट एवार्थ इति नोक्तव्युत्पत्त्यवसर इति भावः। इत्यपि केचिदिति । वस्तुतस्तु उपमाविधेयकबोधे तात्पर्य अरविन्दतुल्यमित्येव साध, न तु तुल्य इति । यदि तु विधेयस्य धर्मत्वेनोपमा. बोधकबाध्यत्वमेव विधेयत्वमुपमाया इति विभाव्यते तर्हि अरविन्दतुल्यविषयकं भानं भानविषयोऽरविन्दतुल्य इति वा बोधेऽपि भानस्य धर्मत्वेन भानादुपमाया अविधेयत्व. For Private And Personal Use Only
SR No.020600
Book TitleRas Gangadhar
Original Sutra AuthorN/A
AuthorJagganath Pandit
PublisherNirnaysagar Yantralaya Mumbai
Publication Year1888
Total Pages533
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy