SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir रसगङ्गाधरः। अत्र सर्वेषामुपमानानां शब्दैरेवाभिधानात्समस्तवस्तुविषया अङ्गोपमाभिनिष्पाद्यमानत्वाञ्च साङ्गा भवति । एकदेशविवर्तिनी सावयवा यथा'मकरप्रतिमैर्महाभटैः कविभी रत्नसमैः समन्वितः ।। कवितामृतकीर्तिचन्द्रयोस्त्वमिहोरिमणासि कारणम् ॥' अत्रोत्तरार्धे उपमितसमास एव । विशेषणसमासवेद्यस्य तादात्म्यस्य प्रकृतेऽनुपयोगात् । राज्ञो जलधेरुपमाशब्देनानभिहिताप्यङ्गोपमाभिराक्षिप्ता प्रतीयते । इत्येकदेशविवर्तनादेकदेशविवर्तिनी । केवलश्लिष्टपरम्परिता यथा 'नगरान्तर्महीन्द्रस्य महेन्द्रमहितश्रियः । सुरालये खलु सीबा देवा इव विरेजिरे ॥' अत्र श्लेषोपस्थापितेन सुमेरुणा मदिरागारस्योपमा क्षीबानां देवोपमाया उपाय इति विष्टपरम्परिता । अन्योन्योपायतारूपस्यैव परम्परितत्वस्येह परिभाषणात्, मालारूपताविरहाच्च । केवला मालारूपश्लिष्टपरम्परिता यथा 'महीभृतां खलु गणे रत्नसानुरिव स्थितः । त्वं काव्ये वसुधाधीश वृषपर्वेव राजसे ॥' मञ्जु हसितं यस्याः । सकलः पूर्णकल: कलाकान्तश्चन्द्रस्तद्वद्वदनश्रीर्यस्याः । अत्र उदाहरणद्वये । सर्वेषामवयवरूपाणामवयविरूपाणां च । तथा च तेषां तदभिधेयत्वमेव समस्तवस्तुविषयत्वमिति भावः । अनोपमेति । अवयवोपमेत्यर्थः । एवमग्रेऽपि । साङ्गा सावयवा । तथा चोपमानां सापेक्षत्वं सावयवत्वमिति भावः । मकरा मत्स्याः । कविता अमृतमिव । कीर्तिश्चन्द्र इव । विशेषणेति । मयूरव्यंसकेतीत्यर्थः । नगरान्तरिति । महेन्द्रवत्पूजिता श्रीर्यस्य तस्य राज्ञो नगरमध्ये सुरालये मत्ता देवा इव खल विरेजिरे इत्यर्थः । गारस्योपमेति । सुरालये इतीति भावः । नन्वेवं श्लिष्टत्वेऽपि कथं परम्परितत्वमत आह–अन्योन्योपायतारूपस्यैवेति । सावयवायां परस्परसमर्थकत्वेऽपि नोपायता । ज्योत्स्नायां हसितत्वारोपं विनापि औज्ज्वल्यादिना सीतायां राकासाम्य. सिद्धेः । इह तु मदिरागारेषु सुमेरूपमां विना क्षीबेषु देवोपमायां न किंचित्साधर्म्यम् । तस्मिश्च तादृशसादृश्यप्रतीतिमूलाभेदमापन्नसुरालयवृत्तित्वमेव तथा । मदिरागारेषु सु. मेरूपमायां च क्षीबेषु देवोपमां विना न साधारणधर्म इत्यन्योन्योपायता । अन्योन्या For Private And Personal Use Only
SR No.020600
Book TitleRas Gangadhar
Original Sutra AuthorN/A
AuthorJagganath Pandit
PublisherNirnaysagar Yantralaya Mumbai
Publication Year1888
Total Pages533
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy