SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir रसगङ्गाधरः। लक्षणं नातीव रमणीयम् । व्यतिरेके निषेधप्रतियोगिनि सादृश्येऽतिव्यापनात् । न च पर्यवसितत्वेन साधये विशेषणीयमिति वाच्यम् । अनन्वयस्थसादृश्यस्यापर्यवसायित्वेनैव वारणे भेदविशेषणवैयर्थ्यापत्तेः । काव्यालंकारप्रस्तावे लौकिकालौकिकप्रधानवाच्यव्यङ्गयोपमासामान्यलक्षणकरणानौचित्याच्च । अत एव भेदाभेदतुल्यत्वे साधर्म्यमुपमा' इत्यलंकारसवखोक्तमपि लक्षणं तथैव । एवं 'प्रसिद्धगुणेनोपमानेनाप्रसिद्धगुणस्योपमेयस्य सादृश्यमुपमा' इत्यलंकाररत्नाकरोक्तमपि न भव्यम् । श्लेषमूलकोपमायां तादृशशब्दात्मकस्य धर्मस्य कविनैव कल्पनात् । तेन रूपेणोपमानस्याप्रसिद्धेश्च । इत्यलं परकीयदूषणगवेषणया। प्रकृतमनुसरामः। अस्याश्चोपमायाः प्राचामनुसारेण केचिद्भेदा उदाहियन्ते-तथाहिउपमा द्विविधा, पूर्णा लुप्ता च । पूर्णा तत्र-श्रौती, आर्थी चेति द्विधा भवन्ती वाक्यसमासतद्धितगामितया पोढा । लुप्ता चउपमानलुप्ता, धर्मलुप्ता, वाचकलुप्ता, धर्मोपमानलुप्ता, वाचकधर्मलुप्ता, वाचकोपमेयलुप्ता, धर्मोपमानवाचकलुप्तेति तावत्सप्तविधा । तत्रोपमानलुप्ता-वाक्यगा, समासगा चेति द्विविधा । धर्मलुप्ता-समासगताश्रौती, आर्थी । वाक्यगता-श्रौती, आर्थी । तद्धितगता च–आर्येव, न श्रौती । इति पञ्चविधा । वाचकलुप्ता-समासगता, कर्मक्यज्यता, आधारक्यज्गता, क्यङ्गता, कर्मणमुल्गता, कर्तृणमुल्गता चेति षड्डिधा । धर्मोपमानलुप्ता-वाक्यगता, समासगता चेति द्विविधा । वाचकधर्मलुप्ता क्विब्गता, समासगता चेति द्विविधैव । वाचकोपमेयलुप्ता त्वेकविधा । धौपमानवाचकलुप्ता तु समासगतैकविधा। इति । एवं साकल्येनैकोनविंशतिmप्ताभेदाः पूर्णाभेदैः सह पञ्चविंशतिः क्रमेणोदाहियन्ते । तत्र पूर्णा श्रौती वाक्यगता यथा'ग्रीप्मचण्डकरमण्डलभीष्मज्वालसंसरणतापितमूर्तेः । प्राटषेण्य इव वारिधरो मे वेदनां हरतु वृष्णिवरेण्यः ॥' ति।अत एवेति । प्रकाशग्रन्थे। उक्तदोषगणादेवेत्यर्थः । तथैव नातीव रमणीयमित्यर्थः । एकमिति। व्यतिरेकेऽतिव्यापनादित्यर्थः । ननु पर्यवसितत्वेन विशेषणान्न दोषोऽत आहश्लेषेति। प्राचां प्रकाशकारादीनाम् । तत्र तयोर्मध्ये । तत्र तासां सप्तानां मध्ये । तत्र पञ्चविंशतीनां मध्ये । ग्रीष्मेति । मण्डलस्य भीष्मा ज्वाला यत्र तत्र देशे यत्संसरणं ग For Private And Personal Use Only
SR No.020600
Book TitleRas Gangadhar
Original Sutra AuthorN/A
AuthorJagganath Pandit
PublisherNirnaysagar Yantralaya Mumbai
Publication Year1888
Total Pages533
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy