SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org १९४ काव्यमाला | मञ्जुमञ्जीरशिञ्जितमनोहरताया अनुपपत्तेः । उपमितसमासायत्तोपमायां तु प्रधानस्य पादस्य पादत्वेनैव प्रतीतस्य नास्ति तस्या अनुपपत्तिरिति न कोऽपि दोषः । न चोपमितसमासे पूर्वपदार्थस्योपमेयस्योपमेयतावच्छेदकतयैव प्रतीतिरिति न युक्तम् । 'वक्रे चन्द्रमसि' इति प्रागुक्तरूपक इवोपमानताद्रूप्यावदभेदबुद्ध्या तत्ताद्रूप्यस्यात्रापि प्रतिपत्तुं शक्यत्वालक्षणायास्तुल्यत्वादिति वाच्यम् । उपमितसमासे भेदघटितसादृश्यस्य लक्ष्यकोटिप्रविष्टतया वैलक्षण्यस्य वक्ष्यमाणत्वात् । यदप्युक्तं सादृश्यस्य शब्देनोपादानादुपमात्वापत्तिरिति, तदपि न । भेदाकरम्बितसादृश्यविशिष्टस्य रूपके लक्ष्यत्वादुपमाव्यपदेशस्याप्रसक्तेः । ' सादृश्यमुपमा भेदे ' इति तत्सिद्धान्तात् । ननु यत्र भेदघटितसादृश्यवति वक्रा लक्षणया मुखं चन्द्र इति प्रयुक्तं तत्र तथाप्युपमालंकारापत्तिः स्थितैवेति चेत्, भेदघटितसादृश्यप्रतिपिपादयिषाकाले लक्षणया तद्वति शब्दप्रयोगस्य विरुद्धत्वात् । लक्षणायास्ताद्रूप्यप्रतिपिपादयिषाधीनत्वात् । नहि प्रयोजन - मनुद्दिश्य रूढिव्यतिरिक्तया लक्षणयार्थ प्रतिपादयन्त्यार्याः । भेदताद्रप्ययोर्विप्रतिषिद्धत्वेन युगपत्प्रतिपत्तृबुद्ध पारोहासंभवाच्च । अथोपमितसमासे पुरुषव्याघ्र इत्यादावुत्तरपदस्य स्वार्थसदृशे लक्षणैवोपगन्तव्या । अन्यथा बोधकाभावेन समासे सादृश्यप्रत्ययो न स्यात् । न च व्याघ्र इतीवशब्दस्तद्बोधक इति वाच्यम् । तस्य समासे संबन्धाभावात् । सति च संबन्धे तन्निवृत्तेरयोगात् । निवर्तकशास्त्रस्याभावात् । विग्रहवाक्यगतस्त्विवशब्दः स्वघटितवाक्यस्योपमाप्रतिपादकत्वं संपादयितुमीष्टे, न वाक्यान्तरस्य । तस्य विवरणत्वानुपपत्तेश्च । नहि विवरणीयवाक्यगतशनोहरताया इत्यर्थः । उपमानतादूप्येति । उपमानसदृशयेोरेकपदोपात्तत्वेनोपमानताद्रूप्यवत्सदृशाभेदबुद्ध्या उपमेये उपमानताद्रूप्यस्योपमायामपि ज्ञातुं शक्यत्वादित्यर्थः । तत्र हेतुमाह - लक्षणेति । रूपके इवोपमितसमासे वाचकेवशब्दस्याभावेन लक्षणासत्त्वेन तस्याः समत्वादित्यर्थः । भेदाकरम्वीति । भेदाविशिष्टेत्यर्थः । दोषान्तरमाहभेदेति । संबन्धाभावादिति । द्वयोरेव पदयोः समासादिति भावः । अभ्युपेत्याह-सति चेति । उपमाप्रतीति । उपमालंकारप्रतीत्यर्थः । वाक्यान्तरस्य समासवाक्यस्य । ननु समासे मास्तु सादृश्यप्रतीतिरत आह- तस्येति । विग्रहवाक्यस्येत्यर्थः । इत्थं च 1 Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only
SR No.020600
Book TitleRas Gangadhar
Original Sutra AuthorN/A
AuthorJagganath Pandit
PublisherNirnaysagar Yantralaya Mumbai
Publication Year1888
Total Pages533
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy