SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ११८ काव्यमाला। बोधोत्तरं बोध्यः । स एव तु कथं स्यादित्युपायोऽयं विचिन्त्यते । नापहर्तृव्यवहारो वक्त्रा विवक्षित इति श्रोतुबर्बोधे कश्चिदुपायोऽस्ति । ऋते सहृदयहृदयोन्मिषितादस्माद्व्यापारात् । एवमन्यत्राप्यूह्यम् । तादृशार्थप्रतिपत्तिरेव नास्तीति तु गाढतरशब्दार्थव्युत्पत्तिमसृणीकतान्तःकरणैर्न शक्यते वक्तुम् । तथा चेत्थं संग्रहः'योगरूढस्य शब्दस्य योगे रूट्या नियन्त्रिते । धियं योगस्टशोऽर्थस्य या सूते व्यञ्जनैव सा ॥' एवं स्थिते नानार्थस्थलेऽप्युपमायाः प्राकरणिकाप्राकरणिकार्थगतायाः प्रतिपत्तयेऽवश्यं वाच्यया व्यञ्जनयैवाप्राकरणिकस्याप्यर्थस्य प्रतिपत्तावलं क्लिष्टकल्पनयेत्याशयेन प्राचीनरुक्तं नानार्थव्यञ्जकत्वमपि न दुष्यति । तत्र नानार्थशक्तिनियमनाय तैः संयोगादयो निरूपिताः 'संयोगो विप्रयोगश्च साहचर्य विरोधिता । अर्थः प्रकरणं लिङ्गं शब्दस्यान्यस्य संनिधिः ।। सामर्थ्य मौचिती देशः कालो व्यक्तिः स्वरादयः । शब्दार्थस्यानवच्छेदे विशेषस्मृतिहेतवः ॥' इति । तत्र संयोगो नानार्थशब्दशक्यान्तरवृत्तितया अप्रसिद्धत्वे सति तच्छक्यत्तितया प्रसिद्धः संबन्धः । यथा--'सशङ्खचक्रो हरिः' इत्यत्र शङ्खचक्रयोः संयोगो भगवन्मात्रनिष्ठतया प्रसिद्धो भगवति हरिशब्दस्याभिधाया नियमेनावस्थापकः । न त्वायुधत्वेनायुधसामान्यसंयोगः, पाशाङ्कुशादिसंयोगो वा । दलद्वयाहोऽत आह-तात्पर्याथैति । ननु यत्र तद्वाक्येन तदर्थान्वयबोधात्प्राक्प्रकारान्तरेण तदर्थे वक्तुस्तात्पर्यग्रहस्तत्रास्तु नाम 'काकेभ्यो दधि रक्ष्यताम्' इत्यादी तात्पर्यानुपपत्त्या लक्षणा, प्रकृते तु न तथेत्याह-नयपहर्तृव्यवहार इति । अस्मान्य अनरूपात् । तादृशेति । अन्येत्यर्थः । अवश्यं वाच्ययेति । अर्थापत्तेः प्रमाणान्तरत्वे मानाभावादिति भावः । क्लिष्टोति । पूर्वोक्त्यर्थः । तत्र निरूपितायां व्यञ्जनायाम् । तैः प्राचीनैः। तत्र संयोगादीनां मध्ये । मात्रपदेन विशेषणदलसत्ता सूचिता । भगवति विष्णौ । For Private And Personal Use Only
SR No.020600
Book TitleRas Gangadhar
Original Sutra AuthorN/A
AuthorJagganath Pandit
PublisherNirnaysagar Yantralaya Mumbai
Publication Year1888
Total Pages533
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy