SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १०० काव्यमाला | चात्र चकितनयनामित्यनेन परपुरुषस्पर्शत्रासाभिव्यक्त्या रतेरनुभयनिष्ठतेव्याभासताहेतुर्वाच्यः । अस्याश्च चिराय तस्मिन्नासक्ताया अन्तःपुरे परपुरुपागमनस्यात्यन्तमसंभावनया क एष मां बोधयतीत्यादावुचित एव त्रासः । अनन्तरं च परिचयाभिव्यक्त्या सोऽयं मत्प्रियो मदर्थं प्राणानपि तृणीकृत्यागत इति ज्ञानादुत्पन्नं हर्षमभिव्यञ्जयत्स्मेरवदनामिति विशेषणं रातें तदीयामपि व्यनक्ति । परं तु प्राधान्यं नायकनिष्ठाया एव रतेः । सकलवाक्यार्थत्वात् । यथा वा- 'भवनं करुणावती विशन्ती गमनाज्ञालवलाभलालसेपु । तरुणेषु विलोचनाब्जमालामथ वाला पथि पातयांबभूव ॥' अत्र कुतश्चिदागच्छन्त्याः पथि तदीयरूपयौवनगृहीतमानसैर्युवभिरनुगम्यमानायाः कस्याश्चिद्भवनप्रवेशसमये निजसेवा सार्थक्यविज्ञानाय गमनाज्ञापनरूपलाभलालसेषु तेषु परमपरिश्रमस्मरणसंजातकरुणाया गमनाज्ञादाननिवेदकस्य विलोचनाम्बुजमालापरिक्षेपस्यानुभावस्य वर्णनादभिव्यज्य - माना रतिर्बहुवचनेन बहुविषया गम्यत इति । भवत्ययमपि रसाभासः । यथा वा 'पञ्जरे गृहीता नवपरिणीता वरेण वधूः । तत्कालजालपतिता बालकुरङ्गीव वेपते नितराम् ||' अत्र रतेर्नववध्वा मनागप्यस्पर्शादनुभवनिष्ठत्वेनाभासत्वम् । तथा चोक्तम् 'उपनायकसंस्थायां मुनिगुरुपत्नीगतायां च । बहुनायक विषयायां रतौ तथानुभयनिष्ठायाम् ||' इति । स्पर्शेति । स्पर्शकृतत्रासेत्यर्थः । अनुभयेति । नायके सत्त्वेऽपि नायिकायामभावादिति भावः । हेतुरिति । तथा च तृतीयोदाहरणमेतन्नायस्येति भावः । समाधत्ते - अस्याश्वेति । चो यत इत्यर्थे । व्यनक्तीत्यत्रास्यान्वयः । रतिमिति । नायिकासंबन्धिनीं रतिमपीत्यर्थः । ह्र्षसमुच्चायकोऽपिः । नन्वेवं विनिगमनाविरहोत आह- परं त्विति । नायिका निष्टा तु स्मेरेति पदमात्रव्यङ्गत्वान्न वाक्यार्थः । तथा चाद्योदाहरणतास्य सुस्थति भावः । द्वितीयोदाहरणमाह-यथा वेति । भवनं स्वगृहम् | विज्ञानाय तदङ्गीकाराय | तेषु तरुणेषु । करुणायामन्ययः । परमेत्यस्य तरुणसंवन्धीत्यादिः । बह्निति । तरुणेष्विति बह्नित्यर्थः । तृतीयोदाहरणमाह-यथा वेति । भुजेति रूपकम् । उपेति । आभासत्व For Private And Personal Use Only
SR No.020600
Book TitleRas Gangadhar
Original Sutra AuthorN/A
AuthorJagganath Pandit
PublisherNirnaysagar Yantralaya Mumbai
Publication Year1888
Total Pages533
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy