SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काव्यमाला। इष्टासिद्धिराजगुर्वाद्यपराधादिजन्योऽनुतापो विषादः । उदाहरणम्'भास्करसूनावस्तं याते जाते च पाण्डवोत्कर्षे । दुर्योधनस्य जीवित कथमिव नाद्यापि निर्यासि ॥' अत्र स्वापकर्षपरोत्कर्षयोर्दर्शनं विभावः । जीवितनिर्याणाशंसा, तदाक्षिप्तं वदननमनादि चानुभावः । अस्मिन्नेव च विषादध्वनौ दुर्योधनस्येत्यर्थान्तरसंक्रमितवाच्यध्वनिरनुग्राहकः । न चात्र त्रासभावध्वनित्वं शङ्कचम् । परवीरस्य दुर्योधनस्य त्रासलेशस्याप्ययोगात् । नापि चिन्ताध्वनित्वम् । युवा मरिष्यामीति तस्य व्यवसायात् । नापि दैन्यध्वनित्वम् । सकलसैन्यक्षयेऽपि विपदस्तेनागणनात् । न वा वीररसध्वनित्वम् । मरणस्य शरणीकरणे परापकर्षजीवितस्योत्साहस्याभावात् । इदं पुनरत्र नोदाहार्यम् 'अयि पवनरयाणां निर्दयानां हयानां श्लथय गतिमहं नो संगरं द्रष्टुमीहे । श्रुतिविवरममी मे दारयन्ति प्रकुप्य गुजगनिभभुजानां बाहुजानां निनादाः ॥' अत्र त्रासस्यैव प्रतीयमानत्वेन विषादस्याप्रतीतेः, लेशतया प्रतीतो वा त्रास एव । आनुगुण्यौचित्येन ध्वनिव्यपदेशायोग्यत्वात् । अधुनैवास्य लाभो ममास्त्वितीच्छा औत्सुक्यम् । विशेषसमर्थनमत्र बोध्यम् । भास्करसूनौ कर्णे । दुर्योधनस्य जीवितेति संबुद्धिः । हे वीरेत्यर्थः । इवशब्दो वाक्यालंकारे । निर्यासि गच्छसि । विषादध्वनित्वं द्रढयतिअस्मिन्नेवेति । वाच्यध्वनिरिति । लक्ष्यतावच्छेदकं च कर्णदर्शनावधिजीवित्वम्, एकादशाक्षौहिणीपतिवन्धत्वम्, प्रतापेनागणितपाण्डवतेजस्त्वम्, पाण्डवानां वनवासादिदातृत्वं वा अतिदुःखित्वं व्ययम् । परेति । उत्कृष्टेत्यर्थः । युद्धेति । तथा च किं भविष्यतीत्याद्याकारायास्तस्या असंभव इति भावः । तेनागेति । तथा च तद्विभावस्याभाव इति भावः । परेति । बहुव्रीहिस्तृतीयातत्पुरुषो वा । परापकर्षस्यैवाभावादिति भावः । उत्साहस्येति । तत्स्थायिभावस्येति भावः । अयोति कोमलामन्त्रणे । 'अमी मे' इति पाठः । बाहुजानां क्षत्रियाणाम् । अस्य पदार्थस्य । निपतदिति । For Private And Personal Use Only
SR No.020600
Book TitleRas Gangadhar
Original Sutra AuthorN/A
AuthorJagganath Pandit
PublisherNirnaysagar Yantralaya Mumbai
Publication Year1888
Total Pages533
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy