SearchBrowseAboutContactDonate
Page Preview
Page 5
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsur Gyanmandir राम रौ शांतकोपी जातो. ततस्तौ तयोर्विवाहं कृत्वा धनधान्यादिकं दत्वा शांतकोपी स्वस्थानं जग्मतुः | चरित्रं यतः प्रायो विचारचंचूनां कोपः प्रणामावधिरेव. ____ तत्रैव लंकानगर्या स्थितयोस्तयोः श्रीकंठपद्मयोः सुखेन काले याते सति एकस्मिन् दिने की. तिधवलेन रादसेन प्रोक्तं यदायमत्रैव राक्षसहीपे तिष्टत, वैताब्यपर्वते युष्माकं जुयांसो विदिषोडधुना वर्तते, तेन्यो दुरस्थितिरेव वरं, यतः-शकटारपंचहस्तेषु । दशहस्तेषु वाजिनः ॥ हस्तिनः पंचहस्तेषु । देशत्यागश्च दुर्जनात् ॥ १॥ एवं विचार्यात्रैव स्थीयतां. तयात्रैव रासदीपस्य ना. तिदुरे वायव्यां दिशि वानरनामा दीपोऽस्ति योजनशतत्रयप्रमाणस्तत्रैव स्थीयता, अन्येप दीपा बर्बरकुलसिंहलविमलाश्वमुखनरमुखगजमुखप्रमुखा मदीयाः संति पृथिवीखमसन्निनाः. एतेषां दीपा. नां मध्यादेकस्मिन् यूयं राजधानी विधाय सुखेन तिष्टत? यथावयोर्वियोगो न भवति. श्त्याकार्य स्नेहपखशः श्रीकंठो वानरदीपनिवासं प्रत्यपद्यत. ततः श्रीकंठस्त्रिशतयोजनमितं वानरहीपं गतः, त त्र दीपे किष्किंधनामा पर्वतोऽस्ति, तस्मिन् पर्वते तेन किष्किंधानाम्नी नगरी स्थापिता, तस्यां न. | गर्या श्रीकंठं कीर्तिधवलो राज्ये स्थापयामास. तत्र वानरहीपे एकस्मिन् दिने श्रीकंठेन राझा नु. For Private And Personal Use Only
SR No.020595
Book TitleRam Charitram
Original Sutra AuthorN/A
AuthorDevvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1915
Total Pages367
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy