SearchBrowseAboutContactDonate
Page Preview
Page 8
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (२) पाम् । गुडूच्यादिप्रथमवर्गपरिमितमेवैतत्पुस्तकम् । नास्त्य स्मिञ्शकलेखः। (छ.) इति संज्ञितम्–श्रीमन्महादेव चिमणाजी आपटे इत्येतैः 'वोदर' इत्याख्यराजधानीतः समानीतम् । शकदर्शनमस्मिन्न वर्तते । अस्य ग्रन्थस्य सप्तमाद्वर्गात्पुरः कानिचित्पृष्ठानि गलितानि वर्तन्ते। द्विशतसंवत्सरावधिको लेखनकालो वर्तत इति लेखन दर्शनेनानुमीयते। धातुशोधनमारणादिविषयोऽत्र न वर्तते । (ज.) इति संज्ञितम्-राजनिघण्टुपुस्तकम्-पुण्यपत्तनस्थानां माटे इत्युपाह्वानां वे. शा. रा. रा. कृष्णशास्त्री वैद्य इत्येतेषाम् । तत्र लेखनशको न वर्तते । तथाऽप्येतत्पुस्तकं पञ्चसप्ततिवर्षदेशीयं भवतीति मे मतिः । एतदप्यंशतो मदीयपुस्तकानुसारि । अस्मिन्पुस्तके नास्ति धातूनां शोधनमारणादिप्रकरणम् । (म.) इति संज्ञितम्-आनन्दाश्रमस्थं संस्करणार्थ लिखितं पुस्तकम् । (अ.) इति संज्ञितम्-धन्वन्तरीयनिघण्टुपुस्तकमेतत्, रा. रा. “श्रीपतराव छत्रे वकील" इत्येतेषाम् । (ट.) इति संज्ञितम्-धन्वन्तरीयनिघण्टुपुस्तकमेतत् , खेडग्रामनिवासिनां रा० रा० 'नागुभाऊ वकील ' इत्येतेषाम् । (3.) इति संज्ञितम्-राजनिघण्टुपुस्तकमेतत् , रा. रा. 'श्रीपतराव छत्रे वकील' इत्येतेषाम् । (ड.) इति संज्ञितम् -राजनिघण्टुपुस्तकम्, रा० रा. 'नागुभाऊ वकील' इत्ये तेषाम् । (ढ.) इति संज्ञितम्-चिंचवडग्रामनिवासिनो चापेकर इत्युपाह्वानां वे० शा० रा. रा० 'गणेश विनायक' इत्येतेषाम् । राजनिघण्टुपुस्तकमेतत्। (ण.) इति संज्ञितम्-धन्वन्तरीयनिघण्टुपुस्तकमेतत् , चिंचवडग्रामनिवासिनां रा० रा० चापेकर इत्येतेषाम् । (त.) इति संज्ञितम्-धन्वन्तरीयनिघण्टुपुस्तकमेतत्,-आनन्दाश्रमपुस्तकसंग्रहाल. यस्थम् । समाप्लेयमादर्शपुस्तकोल्लेखपत्रिका । For Private and Personal Use Only
SR No.020593
Book TitleRajnighantu Ssahito Dhanvantariya Nighantu
Original Sutra AuthorN/A
AuthorHarinarayan Aapte
PublisherAnandashram Mudranalay
Publication Year
Total Pages619
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy