SearchBrowseAboutContactDonate
Page Preview
Page 430
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४२० परिशिष्टो [ मिश्रकादि:(९) देवकर्दमः-श्रीखण्डागरुकर्पूरकाश्मीरैस्तु समांशकैः । मृगाङ्कमुकुटाोऽयं मिलितैर्देवकर्दमः ॥९॥ (१०) मूत्रपञ्चकम्---गवामजानां मेषीणां महिषीणां च मिश्रितम् । मूत्रेण गर्दभीनां यत्तन्मूत्रं मूत्रपञ्चकम् ॥ १०॥ (११) त्रिलोहकम्-सुवर्ण रजतं तानं त्रयमेतत्रिलोहकम् । ( १२ ) पञ्चलोहकम्-वङ्गनागसमायुक्तं तत्याहुः पञ्चलोहकम् ॥ ११॥ ( १३ ) द्वितीयं पञ्चलोहकम्—सुवर्ण रजतं तानं त्रपु कृष्णायसं समम् । ग्रहामिति वोद्धव्यं द्वितीयं पञ्चलोहकम् ॥ १२॥ (१४ ) सप्त धातवः-रसामृङ्मांसमेदोस्थिमज्जाशुक्राणि धातवः । शरीरस्थैर्यदैरेतैः सप्तधातुगणो मतः ॥ १३ ॥ ( १५ ) अष्टलोहः–पञ्चलोहसमायुक्तैः कान्तमुण्डकतीक्ष्णकैः । कल्पितः कथितो धीरैरष्टलोहाभिधो गणः ॥१४॥ (१६) महारसाः-दरदः पारदः संस्यो वैक्रान्तं कान्तमभ्रकम् । माक्षिकं विमलं चेति स्युरेतेऽष्टौ महारसाः ॥ १५ ॥ ( १७ ) उपरसाः-खेचराञ्जनककुष्ठगन्धोलगैरिकाक्षितीः । शैलेयाञ्जनसंमिश्राः शंसन्त्युपरसान्बुधाः ॥ १६ ॥ ( १८ ) सामान्यरसाः-कम्पिल्लगौरीचपलाकपर्दसशैलसिन्दूरकवह्निजारान्। पाषाणिनो बोदरशृङ्गयुक्तानित्यष्टेसामान्यरसानि चाऽऽहुः ॥ १७ ॥ ( १९ ) क्षारदशकम्-शिगुमूलकपलाशचुक्रिकाचित्रकाकसनिम्बसंभवैः । इक्षुशैखरिकमोचिकोद्भवैः क्षारपूर्वदशकं प्रकीर्तितम् ॥ १८ ॥ (२०) मूत्रदशकम्-मूत्राणि हस्तिमहिपोष्ट्रगवाजकानां मेपाश्वरासभकमानुपमानुषीणाम् । यत्नेन यत्र मिलितानि दशेति तानि शास्त्रेषु मूत्रदशकाहयभाजि भान्ति ॥ १९ ॥ ( २१) मन्थः-सक्तुभिः सर्पिषाऽभ्यक्तैः शीतवारिपरिप्लुतैः । नात्यच्छो नातिसान्द्रश्च मन्थ इत्यभिधीयते ॥ २० ॥ (२२) सुरदारुकम्-भार्गीसँटीपुष्करवत्सबीजदुरालभागृङ्गिपटोलतिक्ताः। किरातविश्वेन्द्रकणेन्द्रवीजधान्यानि तिक्तं सुरदारुकं च ॥ २१ ॥ अष्टादशागाभिध एप योगः समागमे स्यादशमूलकेन । द्विधा च भार्यादिक एक एप ज्ञेयो द्वितीयस्तु किरातकादिः ॥ २२ ॥ १ ज. ट. तत्प्रोक्तं । २ ट, सीसं । ३ ज. ट. 'मलश्चति । ४ ज. 'न्धारीगै'। ट. 'न्धालिंगै'। ५ झ. ढ. 'टकं सूतसमानमाहुः । ६ ज. 'गीसटी । ७ झ. ढ. 'णेभवी । . For Private and Personal Use Only
SR No.020593
Book TitleRajnighantu Ssahito Dhanvantariya Nighantu
Original Sutra AuthorN/A
AuthorHarinarayan Aapte
PublisherAnandashram Mudranalay
Publication Year
Total Pages619
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy