________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
० विंशो वर्गः ] राजनिघण्टुः। (२५) गुल्मः-गुल्मस्तु जाठरग्रन्थिः ( २६ ) पृष्ठप्रन्थिः —पृष्ठग्रन्थौ गडुभवेत् । (२७) पङ्क्तिशूलम्-पत्रिशूलं तु शूलं स्यात् (२८) पाकजम्-पाकजं परिणामजम् ॥ १० ॥ (२९) लूता-लूता चर्मव्रणो वृक्कं (३०) नाडी-नाडी नाडीव्रणो भवेत । (३१) श्लीपदम्-श्लीपदं पादवल्मीकं ( ३२ ) पादस्फोट:--पादस्फोटो विपादिका ॥ ११ ॥ ( ३३ ) विष्टम्भः-विष्टम्भस्तु विबन्धः स्यादानाहो मलरोधनम् । ( ३४ ) अर्श:-अर्शासि गुदकीलाः स्युर्दुर्नामानि गुदाकुराः ॥ १२ ॥ (३५) अतीसारः-मलवेगस्त्वतीसारो (३६) ग्रहणी-ग्रहणी रुक्प्रवाहिका । ( ३७ ) वमिः—चमथुर्वान्तिरुद्गारच्छािवैच्छर्दिका वमिः ॥ १३ ॥ (३८) हृद्रोगश्वासौ-हृद्रोगो हृद्गदो हृदुगुत्माणः श्वास उच्यते । (३९) ज्वरः-ज्वरस्तु स ज्वरातको रोगश्रेष्ठो महागदः ॥ १४ ॥ (४०)द्वंद्वजाः-द्वंद्वजा द्वंद्वदोपोत्थाः शीताद्या विषमज्वराः । अती.
त्याऽऽगन्तवस्ते चैकाहिकत्र्याहिकादयः ॥ १५ ॥ (४१) रक्तपित्तम्-रक्तपित्तं पित्तरक्तं पित्तात्रं पित्तशोणितम् । इत्येवं
रक्तवातादिद्वंद्वदोपमुदाहरेत् ॥ १६ ॥ . ( ४२ ) तृष्णादयः-तृष्णादन्या पिपासा तृण्मदातको मदात्ययः । पाना
त्ययो मदव्याधिर्मदस्तूद्रिक्तचित्तता ॥ १७॥ मूर्छा तु मोहो मूढिश्च
स्वरसादः स्वरक्षयः। ( ४३ ) अरोचकम्-अश्रद्धाऽनभिलाषः स्यादरुचिश्चाप्यरोचकः ॥१८॥ ( ४४ ) प्रमेहः-मूत्रदोपस्तु विज्ञेयः प्रमेहो मेह इत्यपि । (४५) कृच्छं-कृच्छं तु मूत्रकृच्छ् स्यात् (४६) मूत्ररोधः-मूत्ररोधोऽश्मरी च सा ॥ १९ ॥ (४७) वातव्याधिः-चातव्याधिश्चलातको वातरोगोऽनिलामयः। (४८ ) कम्पः-कम्पस्तु वेपनं वेपः कम्पनं वेपथुस्तथा ॥ २० ॥ (४९) जृम्भा--जम्मा तु जृम्भिका जम्भा जृम्भणं जम्भिका च सा । (५०) आलम्यम्-आलस्यं मन्दता मान्ा कार्यपद्वेप इत्यपि ॥ २१ ॥ (५१) तुन्द:-तुन्दः स्थविष्ठ इत्युक्तो जैटरनो जलोदरः।
१ ज. मर्मत्रणो। २ घ. द. ज्वरान्तको। ३ ज. जठराभो । ट. जलराजो।
For Private and Personal Use Only