________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१९ एकोनविंशो वर्गः] राजनिघण्टुः ।
(४२) कालिकः। *कालिकः कोकिलः प्रोक्तः कालुश्चः कृष्णदंष्ट्रकः । कसारिका दीर्घमूर्छा गृहवासा बिलाशयी ॥ ३०॥
(४३) यूका। यूका तु केशकीटः स्यात्स्वेदजः पट्पदः स्मृतः ।
(४४) पक्ष्मयका। पक्ष्मजा पक्ष्मयूका स्यात्सूक्ष्मा षट्चरणाऽपि सा ॥ ३१ ॥
(४५) श्वेतयूका। श्वेतयूकाऽङ्गवस्त्रोत्था लिक्षा यूकाण्डवस्त्रके । कथितेष्वेषु यो जीवः क्षोदीयान्वृश्चिकादिकः ॥ ३२ ॥ तत्र तत्र बुधैर्जेयः स सर्वः कीटसंज्ञकः॥
(४६) कीटिका। 'कीटिका चटिका प्रोक्ता वज्रदंष्ट्रा बहुप्रजा । कृशाङ्गी तामसी शूरा कीरिभारा महाबला ॥ ३३ ॥
(४७) मकोरः। 'मोरो मङ्कटः कृष्णस्तीक्ष्णदंष्ट्रो विशालुकः। षट्पादकस्तु मात्सर्यो माकोटस्तूचंगुह्यकः ॥ ३४ ॥
(४८)षबिन्दुकीटः। पविन्दुर्बिन्दुकीटस्तु दीर्घकीटस्तु पादतः ॥ ३५ ॥
___ इत्थं नानातिर्यगाख्याप्रपञ्चव्याख्यापूर्ण वर्गमेनं विदित्वा । बुद्ध्या सम्यकाभिसंधाय धीमान्वैद्यः कुर्यान्मांसवर्गप्रयोगम् ॥ ३६ ॥ येनेभास्यपिता मृगामुकुटः शार्दूलचर्माम्बरः सर्पालंकरणः सुपुंगवगतिः पश्चाननोऽभ्यर्च्यते । तस्य श्रीनृहरीशितुः खलु कृतावेकोनविंशोऽभिधाचूडापीठमणावगादवसिति सिंहादिवर्गो महान् ॥ ३७॥ इति श्रीकाश्मीराघवंशाचार्यपरंपरान्ववायश्रीनरहरिपण्डितविरचिते निघण्टुराजा
___ परनाम्न्यभिधानचूडामणौ सिंहादिरेकोनविंशो वर्गः ॥ १९ ॥
* ज. ट. पुस्तकयोरयं श्लोको न दृश्यते । । ज. ट. पुस्तकयोनैतदुपलभ्यते । + ज. ट. पुस्तकयोनास्तीदम्।
For Private and Personal Use Only