SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir धन्वन्तरीयनिघण्टुः- [गुडूच्यादिः (३५) जीवकः। जीवकः शृङ्गकः श्वेडो दीर्घायुः कूर्चशीर्षकः । हस्वाङ्गो मधुरः स्वादुः प्राणदश्चिरजीव्यंपि ॥ १२३ ॥ गुणाः-जीवको मधुरः शीतो रक्तपित्तानिलाञ्जयेत् । दाहज्वरक्षयं हन्ति कफशुक्रविवर्धनः ॥ १२४ ॥ राजनिघण्टौ पर्पटादिः पञ्चमो वर्गःजीवको जीवनो जीव्यः शृङ्गाह्वः प्राणदः प्रियः । चिरजीवी च मधुरो मङ्गल्यः कूर्मशीर्षकः ॥ १५४ ॥ ह्रस्वाङ्गो वृद्धिदश्चोक्तो ह्यायुष्माञ्जीवकस्तथा । दीर्घायुर्बलदश्चैव नामान्येतानि षोडश ॥ १५५ ॥ गुणाः—जीवको मधुरः शीतो रक्तपित्तानिलार्तिजित् । क्षयदाहज्वरान्हन्ति शुक्ल श्लेष्मविवर्धनः ॥ १५६ ॥ (३६) ऋषभः । (गौडे काश्मीरे च प्रसिद्धः) ऋषभो दुर्धरो धीरो मातृको वृषभो वृषः । विषाणी ककुदिन्द्राक्षो बन्धुरो गोपतिस्तथा ॥ १२५ ॥ गुणाः—ऋषभस्तु रसे स्वादुः पित्तरक्तसमीरहा । क्षयदाहज्वरं हन्ति श्लेष्मंशुक्रविवर्धनः ॥ १२६ ॥ हन्ति दाहास्रपित्तानि क्षयवातज्वरैः सह ॥ ___ राजनिघण्टौ पर्पटादिः पञ्चमो वर्गः ऋषभो गोपति/रो वृषाणी धूर्धरो वृषः । ककुझान्पुङ्गवो वोढा शृङ्गी धुर्यश्च भूपतिः ॥ १५७ ॥ कामी ऋक्षप्रियश्चोक्तो लाङ्गुली गौश्च बन्धुरः । गोरक्षो वनवासी च ज्ञेयो विंशतिनामकः ॥ १५८ ॥ गुणाः—ऋषभो मधुरः शीतः पित्तरक्तविरेकनुत् । शुक्ल श्लेष्मकरो दाहक्षयज्वरहरश्च सः ॥ १५९ ॥ (३७) मेदा । मेदा ज्ञेया मणिच्छिद्रा शल्यपर्णी धराऽपि च । महामेदा देवमणिर्वसुच्छिद्रा प्रकीर्तिता ॥ १२७ ॥ ___ गुणाः—मेदा स्वादुरसा शीता क्षयदाहज्वरापहा । सपित्तं च जयेत्कासं सकर्फ च विवर्धयेत् ॥ १२८ ॥ महामेदा हिमा स्वादुः कफपित्तविवर्धनी । हन्ति दाहालपित्तानि क्षयवातज्वरैः सह ॥ १२९ ॥ १ च णदः क्षीर' । २ क. घ. ङ. च. धीरः श्रीमानृषभको वृषः । ३ क. ख. वृषाणी। ४ क. ख. ङ. च. ष्मवीर्यवि। ५ क. ख. ङ. च. दादयं गुरु स्तन्यं वातपित्तहरं परम् । स' । For Private and Personal Use Only
SR No.020593
Book TitleRajnighantu Ssahito Dhanvantariya Nighantu
Original Sutra AuthorN/A
AuthorHarinarayan Aapte
PublisherAnandashram Mudranalay
Publication Year
Total Pages619
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy