SearchBrowseAboutContactDonate
Page Preview
Page 395
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १५ पञ्चदशो वर्गः ] राजनिघण्टुः। ३८५ (४) लध्वजानवनीतम्। गुणाः-लबजाजं तु मधुरं कषायं च त्रिदोषनुत् । चक्षुष्यं दीपनं बल्यं नवनीतं हितं सदा ॥४॥ (५)छागनवनीतम्। गुणाः-नवनीतं नवोत्थं तु च्छागजं क्षयकासजित् । बल्यं नेत्रामयनं च कफघ्नं दीपनं परम् ॥ ५॥ (६) आविकनवनीतम्। गुणाः-आविकं नवनीतं तु विपाके तु हिमं लघु । योनिशूले कफे वाते दुर्नानि च हितं सदा ॥६॥ (७) एडकनवनीतम्। गुणाः-ऐडकं नवनीतं तु कपायं शीतलं लघु । मेधाहद्गुरु पुष्टयं च स्थौल्यं मन्दाग्निदीपनम् ॥ ७ ॥ (८) हस्तिनीनवनीतम्।। गुणाः-हस्तिनीनवनीतं तु कषायं शीतलं लघु । तिक्तं विष्टम्भि जन्तुम्नं हन्ति जन्तुकफकमीन् ॥ ८॥ (९) अश्वीयनवनीतम् ।। अश्वीयं नवनीतं स्यात्कषायं कफवातजित् । चक्षुष्यं कटुकं चोष्णमीषद्वातापहारकम् ॥९॥ (१०) गर्दभीनवनीतम्।। गुणाः-गर्दभीनवनीतं तु कपायं कफवातनुत् । वल्यं दीपनदं पाके लघूष्णं मूत्रदोषनुत् ॥ १० ॥ (११) उष्ट्रीनवनीतम् । गुणाः-औष्ट्रं तु नवनीतं स्याद्विपाके लघु शीतलम् । व्रणकृमिकफास्रनं वातघ्नं विषनाशनम् ॥ ११ ॥ (१२) नारीनवनीतम् । गुणाः-नवनीतं तु नारीणां रुच्यं पाके लघु स्मृतम् । चक्षुष्यं सर्वरोगघ्नं दीपनं विपनाशनम् ॥ १२ ॥ For Private and Personal Use Only
SR No.020593
Book TitleRajnighantu Ssahito Dhanvantariya Nighantu
Original Sutra AuthorN/A
AuthorHarinarayan Aapte
PublisherAnandashram Mudranalay
Publication Year
Total Pages619
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy