SearchBrowseAboutContactDonate
Page Preview
Page 376
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३६६ परिशिष्टो [प्रभद्रादिः(१०) हरिदुः। हरिद्रुः पीतदारुः स्यात्पीतकाष्ठश्च पीतकः । कदम्बकः सुपुष्पश्च सुराहः पीतकद्रुमः ॥ २६ ॥ गुणाः-हरिद्रुः शीतलस्तिक्तो मङ्गल्यः पित्तवान्तिजित् । अङ्गकान्तिकरो बल्यो नानात्वग्दोषनाशनः ॥ २७ ॥ (११) दग्धा। दग्धा दग्धरुहा प्रोक्ता दग्धिका च स्थलेरुहा । रोमशा कर्कशदला भस्मरोहा सुदग्धिका ॥ २८॥ गुणाः--दग्धा कटुकषायोप्णा कफवातनिकृन्तनी । पित्तप्रकोपनी चैव जठरानलदीपनी ॥ २९ ॥ (१२) शाखोटः। शाखोटः स्याद्भूतवृक्षो गवाक्षी घूकावासो भूर्जपत्रश्च पीतः । गुणाः-कौशिक्योऽजक्षीरनाशश्च सूक्तस्तिक्तोष्णोऽयं पित्तकद्वातहारी॥३०॥ (१३) *पुत्रजीवः । पुत्रजीवः पवित्रश्च गर्भदः सुतजीवकः । कुटजीवोऽपत्यजीवः सिद्धिदोऽपत्यजीवकः ॥ ३१॥ ___ गुणाः-पुत्रजीवो हिमो वृष्यः श्लेष्मदो गर्भजीवदः । चक्षुष्यः पित्तशमनो दाहेतृष्णानिवारणः ॥ ३२ ॥ (१४) महापिण्डी। महापिण्डीतरुः प्रोक्तः श्वेतपिण्डीतकश्च सः । करहाटः क्षुरश्चैव शस्त्रकोशतरुः सरः ॥ ३९ ॥ गुणाः-पिण्डीतरुः कषायोष्णस्त्रिदोषशमनोऽपि च । चर्मरोगापहश्चैव विशेषाद्रक्तदोषजित् ॥ ४० ॥ (१५) कारस्करः। कारस्करस्तु किंपाको विषतिन्दुविषद्रुमः । गरद्रुमो रम्यफलः कुपाकः कालकूटकः ॥ ४१॥ * पुत्रजीववृक्षः कोलापुरे प्रसिद्धः । १ ज. वातजि । २ झ. ढ. 'करद। ३ ज. ट. हश्रमनि । ४ ट. 'तकः प्रो। For Private and Personal Use Only
SR No.020593
Book TitleRajnighantu Ssahito Dhanvantariya Nighantu
Original Sutra AuthorN/A
AuthorHarinarayan Aapte
PublisherAnandashram Mudranalay
Publication Year
Total Pages619
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy