SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २१ १ प्रथमो वर्गः ] राजनिघण्टुसहितः। (२१) कट्टलः । कट्फलः सोमवल्कश्च श्रीपर्णी कुमुदा तथा । महाकुम्भा च कुम्भीका भद्रा भद्रवतीति च ॥ ७३ ॥ गुणाः—कट्फलः कफवातघ्नो गुल्ममेहाग्निदाहजित् ॥ रुचिष्यो ज्वरदुर्नामग्रहणीपाण्डुरोगहा ।। ७४ ॥ अन्यच्च-कट्फलं च कषायं च कफधातुविकारजित् । हल्लासमुखरोगनं कासश्वासज्वरापहम् ।। ७५ ॥ राजनिघण्टौ शाल्मल्यादिरष्टमो वर्ग:कुमुदा चोग्रगन्धश्च भद्रा रञ्जनकस्तथा । कुम्भी च लघुकाश्मर्यः श्रीपर्णी च त्रिपञ्चधा ॥ १०१॥ गुणाः-कदफलः कटुरुष्णश्च कासश्वासज्वरापहः । उग्रदाहहरो रुच्यो मुखरोगशमप्रदः॥१०२॥ (२२) देवदारुः। देवदारु स्मृतं दारु सुरात किलिमं च तत् । स्नेहविद्धं महादारु भद्रदाविन्द्रदारु च ॥ ७६ ॥ देवकाष्ठं भद्रकाष्ठं पूतिकाष्ठं सुदारु च । सुरदार्विन्द्रवृक्षश्च तथैवामरदारु च ॥ ७७ ॥ गुणाः-देवदारु रसे तिक्तं स्निग्धोष्णं श्लेष्मवातजित् । आमदोषविबन्धाध्मप्रमेहविनिवर्तकम् ॥ ७९ ॥ देवदाईनिलं हन्ति स्निग्धोष्णं श्लेष्मपाकतः। राजनिघण्टौ चन्दनादिद्वादशो वर्गःदेवदारु सुरदारु दारुकं स्निग्धदारुरमरादिदारु च । भद्रदारु शिवदारु शांभवं भूतहारि भवदारु रुद्रवत् ॥ १०३ ॥ देवकाष्ठं पूतिकाष्ठं भद्रकाष्ठं सुकाष्टकम् । अस्निग्धदारुकं चैव काष्ठदारु षडाह्वयम् ।। १०४ ॥ गुणाः--देवकाष्ठं तु तिक्तोष्णं रूक्षं श्लेष्मानिलापहम् । भूतदोषापहं धत्ते लिप्तमङ्गेषु कालिकम् ॥ १०५॥ (२३) कतणम् । कत्तृणं सकलं भूतिभूतिदं रोहिषं तृणम् । ध्यामकं श्यामकं पौरं पाटलं देवदंशकम् ॥ ८० ॥ गुणाः—कत्तृणं श्वासकासघ्नं हृद्रोगशमनं परम् । विषूच्यजीर्णशूलघ्नं कर्फपित्तास्रनाशनम् ॥ ८१ ॥ १च. 'ग्निमान्द्यजि । २ झ. किरिमं । ३ क. ष्णं कफवा । ४ क. च वदण्डक'। ५ क. ग. च. फप्लीहवातास्र । For Private and Personal Use Only
SR No.020593
Book TitleRajnighantu Ssahito Dhanvantariya Nighantu
Original Sutra AuthorN/A
AuthorHarinarayan Aapte
PublisherAnandashram Mudranalay
Publication Year
Total Pages619
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy