SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६ षष्ठो वर्गः ] राजनिघण्टुसहितः। २८१ राजनिघण्टौ सिंहादिरेकोनविंशो वर्गःगोत्रद्वेषी भूरिपक्षः शतायुः सिद्धिकारकः । क्षुद्रोलूकः शाकुनेयः पिङ्गलो दुडुलश्च सः॥४८८॥ (८८) सर्पः ( भोगी) सर्पो दंष्ट्री भुजंगोऽहिर्भुजगोऽथ सरीसृपः । उरगः कञ्चकी व्यालो द्विजिहोऽथ भुजंगमः । स च नागो विषधरः कुण्डली पन्नगः फणी ॥ ४७६ ॥ चक्षुःश्रवा दन्दशूको भोगी चाऽऽशीविपः स्मृतः। सर्पविशेषः-राजिलो जलसर्पस्तु विरुलः स प्रकीर्तितः ॥ ४७७ ॥ श्वेतो नागोऽरुणः सर्पो व्यन्तरश्चित्रवर्णकः । गोनसो मण्डली पातः कुलङ्गः कृष्णडुण्डुभः ॥ ४७८ ॥ __ गुणाः-विविधाग्निकृतः सर्पा वातघ्नाः स्वादुपाकिनः । दर्वीकरा मण्डलिनस्तेषूक्ताः कटुपाकिनः । स्वादवश्वातिचक्षुष्याः सृष्टविण्मूत्रमारुताः ॥ ४७९ ॥ राजीमदादयः स्वादे रसे पाके बलावहाः । स्निग्धाः शीताः स्तब्धवर्चःसशुक्रवलवर्धनाः ॥ ४८० ॥ कृष्णसर्पादयस्तेषां बल्याश्चोष्णानिलापहाः । शुक्रसंधानकृच्छ्रेष्ठा बल्याः स्वापानिलापहाः ॥ ४८१ ॥ स्निग्धोष्णाः स्वादुगुरवः सृष्टविण्मूत्रमारुताः । महाभिष्यन्दिनो वृप्या बल्या वातहराः पराः॥ ४८२ ॥ राजनिघण्टौ सिंहादिरेकोनविंशो वर्ग:दर्वीकरो द्विरसनः पातालनिलयो बली । नागश्च काद्रवेयश्च वक्रगो दन्दशूककः ॥ ४८९ ॥ चक्षुःश्रवा विषधरो गूढाधिः कुण्डली फणी । पन्नगो वायुभक्षश्च भोगी स्याजिह्मगश्च सः ॥ ४९० ॥ सर्पो दंष्ट्री भुजंगोऽहिर्भुजगश्च सरीसृपः । कञ्चकी दीर्घपुच्छश्च द्विजिब उरगश्च सः ॥ ४९१ ॥ फणिनो धवलाङ्गा ये ते नागा इति कीर्तिताः । अन्ये रक्तादिवर्णाट्या वोध्याः सर्पादिनामभिः ॥ ४९२ ।। गोनसो मण्डलीत्युक्तश्चित्राङ्गो व्यन्तरो भवेत् । कुलिको हरितो ज्ञेयो राजिलं टुण्डुभं विदुः ॥ ४९३ ॥ अनन्तो वासुकि: पद्मो महापद्मोऽपि तक्षकः । कर्कोटः कुलिकः शङ्ख इत्यमी नागनायकाः ॥ ४९४ ॥ तद्वान्धवास्तु कुमुदकम्बलाश्वतरादयः । आपहृविमुखी चैव धामिणीत्यादयः परे ॥ ४९५ ॥ (८९) मण्डूकः । ( भेकः) मण्डूको ददुरो मण्डो हरिर्भेकः कसूचकः । महावितस्तु मण्डव्यो राजमण्डूक उच्यते ॥ ४८३ ॥ For Private and Personal Use Only
SR No.020593
Book TitleRajnighantu Ssahito Dhanvantariya Nighantu
Original Sutra AuthorN/A
AuthorHarinarayan Aapte
PublisherAnandashram Mudranalay
Publication Year
Total Pages619
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy