________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२७६
धन्वन्तरीयनिघण्टुः- [सुवर्णादिःसिंहः क्रोष्टा च वातजित् । वाताझेहा दीपनश्च रुच्यो बल्यो बिडालकः ॥४४० ॥ सारमेयो भवेदुष्णो विपाके वातनाशनः ।
तरुक्षुः ( शृगालविशेषः ) ॥ ७१॥ तरक्षुमंगभक्षश्च तरस्सी घोरदर्शनः ॥ ४४१ ॥
राजनिघण्टौ सिंहादिरेकोनविंशो वर्गः-- मृगादस्तु स विज्ञेयस्तरक्षु?रदर्शनः । शिवा तु भूरिमायुः स्यागोमायुमंगधूर्तकः ॥ ४६३ ॥
कुकुरः (शृङ्गालविशेषः ) ॥ ७२ ॥ * कुकुरः सारमेयश्च भषकः श्वानकः शुनः । भूस्तरो वक्रलाङ्गलो भल्लूको रात्रिजागरः॥ ४४२॥
राजनिघण्टौ सिंहादिरेकोनविंशो वर्गः* । भल्लुको वक्रलाङ्गलो वृकारी रात्रिजागरः ॥ ४६४ ॥
(७७) मर्कटः। मर्कटो वानरः कीशो हरिः शाखामृगः कपिः । * प्लवङ्गमो वनौकाश्च प्लवङ्गः प्लवगः प्लवः ॥ ४४३ ॥
गुणाः-संतपणो वृष्यतमः श्लेष्मलो बलवर्धनः । कपायो बद्धविण्मूत्र आमवातकफापहः ॥ ४४४ ॥ वानरः पवनः श्वासमेदःपाण्डुकमीञ्जयेत् ।
राजनिघण्टौ सिंहादिरेकोनविंशो वर्गः* *॥ ४६५ ॥ गोलाङ्गलस्तु गौरास्यः कपिः कृष्णमुखो हि सः । मन्दुराभूषणाख्योऽयं विज्ञेयः कृष्णवानरः ॥ ४६६ ॥
(७८) मयूरः। मयूरो नर्बको वहीं नीलकण्ठः शिखी ध्वजी । मेघारावः कलापी च शिखण्डी चित्रपिच्छकः ॥ ४४५ ॥
गुणाः-मयूरमांसं सुस्निग्धं वातघ्नं शुक्रवर्धनम् । बल्यं मेधाकरं प्रोक्तं चक्षूरोगविनाशनम् ॥ ४४६ ॥ कषायो मधुरः स्वर्यो लवणो वातहा शिखी ।
राजनिघण्टौ सिंहादिरेकोनविंशो वर्गः-- मयूरश्चन्द्रकी वहीं नीलकण्ठः शिखी ध्वजी । मेघानन्दी कलापी च शिखण्डी चित्रपिच्छकः ॥४६७॥ बहिणः प्रचलाकी च शुक्लापाङ्गः शिखावलः।
For Private and Personal Use Only