________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६ षष्ठो वर्गः] राजनिघण्टुसहितः।
२४९ त्परम् । पैच्छिल्यात्स्वादुरूपत्वाद्भामरं गुरुसंज्ञितम् ॥ २३९ ॥ भ्रामरं कुरुते जाड्यमत्यन्तं मधुरं च तत् । क्षौद्रं विशेषतो ज्ञेयं शीतलं लघु लेखनम् ॥२४०।। तस्माल्लघुतरं रूक्षं माक्षिकं प्रवरं स्मृतम् । उष्णविरुध्यते सर्व विषान्वयतया लघु ॥२४॥उष्णार्तरूझरुष्णैर्वा तन्निहन्ति तथा विपम्॥२४२॥तत्सौकुमार्याच्च तथैव सेव्यं वनौषधीनां रससंभवाच्च । उष्णविरुध्येत विशेषतस्तु तथाऽन्तरिक्षण जलेन वाऽपि ॥२४३।। माध्वी सिता मधूत्पन्ना मधुजा मधुशर्करा । माक्षीकशर्करा चैपा क्षौद्रजा क्षौद्रशर्करा ॥२४४ ॥ यद्गुणं यन्मधु प्रोक्तं तद्गुणास्तस्य शर्कराः । विशेषाद्भलवृष्याश्च तर्पण्यः क्षीणदेहिनाम् ॥ २४५ ॥
राजनिघण्टौ पानीयादिश्चतुर्दशो वर्ग:मधु क्षौद्रं च माक्षीकं माक्षिकं कुसुमासवम् । पुष्पासवं पवित्रं च पित्र्यं पुष्परसाहयम् ॥ २७० ॥
राजनिघण्टौ मधुजातयः*। * ॥ २७१ ॥
नानापुष्परसाहाराः कपिला वनमक्षिकाः। याः स्थूलास्ताभिरुत्पन्नं मधु माक्षिकमुच्यते ।। २७२ ॥ ये स्निग्धाञ्जनगोलाभाः पुष्पासवपरायणाः। भ्रमरैर्जनितं तैस्तु भ्रामरं मधु भण्यते ।। २७३ ॥ पिङ्गला मक्षिकाः सूक्ष्माः क्षुद्रा इति हि विश्रुताः । ताभिरुत्पादितं यत्तु तत्क्षौद्रं मधु कथ्यते ॥ २७४ ॥ अन्नजा मक्षिकाः पिङ्गाः पुत्तिका इति कीर्तिताः। तज्जातं मधु धीमद्भिः पौत्तिकं समुदाहृतम् ॥ २७५ ॥ छत्राकारं तु पटलं सरघाः पीतपिङ्गलाः । यत्कुर्वन्ति तदुत्पन्नं मधु च्छात्रकमीरितम् ॥ २७६ ॥ मक्षिकास्तीक्ष्णतुण्डा यास्तथा षट्पदसंनिभाः। तदुद्भुतं यदर्धार्ह तदर्थ्यं मधु वर्ण्यते ॥ २७७ ॥ औद्दालाः कपिलाः कीटा भूमेरुद्दलनाः स्मृताः । वल्मीकान्तस्तदुत्पन्नमौद्दालकमुदीयते ॥ २७८ ॥ इन्द्रनीलदलाकाराः सूक्ष्माश्चिन्वन्ति मक्षिकाः । यदृक्षकोटरान्तस्थं मधु दालमिदं स्मृतम् ॥ २७९ ॥ इत्येतस्याष्टधाभेदैरुत्पत्तिः कथिता क्रमात् । माक्षिकं तैलवर्ण स्याच्छेतं भ्रामरमुच्यते ॥ २८० ॥ क्षौद्रं तु कपिलाभासं पौत्तिकं घृतसंनिभम् । आपीतवर्ण छात्रं स्यापिङ्गलं चाय॑नामकम् ॥ २८१ ॥ औदालं स्वर्णसदृशमापीतं दालमुच्यते । माक्षिकं मधुरं रूक्षं लघुश्वासादिदोपनुत् । भ्रामरं पिच्छिलं रूक्षं मधुरं मुखजाड्यजित् ॥२९२॥ सौद्रं तु शीतं चक्षुष्यं पिच्छलं पित्तवातहृत् । पौत्तिकं मधु रूक्षोष्णमस्त्रपित्तादिदाहकृत् ॥ २८३ ॥ चित्रमेहकृमिघ्नं च विद्याच्छात्रं गुणोत्तरम् ।
१ ण. त. मधु।
For Private and Personal Use Only