SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २४४ धन्वन्तरीयनिघण्टुः- [ सुवर्णादिःराजनिघण्टौ क्षीरादिः पञ्चदशो वर्गःदध्याज कफवातनं लघूष्णं नेत्रदोषनुत् । दुर्नामश्वासकासनं रुच्यं दीपनपाचनम् ।। २४७ ॥ औरभ्रदधि (दुग्धजम् ) ॥ ५७ ॥ गुणाः-कोपनं कफवातानां दुर्नाम्नां चाऽऽविकं दधि । विपाके मधुरं वृष्यं रक्तपित्तप्रसादनम् ॥ १९२ ॥ राजनिघण्टौ क्षीरादिः पञ्चदशो वर्गःआविकं दधि सुस्निग्धं कफपित्तकरं गुरु । वाते च रक्तवाते च पथ्यं शोफव्रणापहम् ॥ २४८॥ महिषीदधि ( दुग्धजम् ) ॥ ५८ ॥ गुणाः-चलासवर्धनं स्निग्धं विशेषान्माहिषं दधि। महाभिष्यन्दि मधुरं कफमेदोविवर्धनम् ॥ १९३ ॥ राजनिघण्टौ क्षीरादिः पञ्चदशो वर्गःमाहिपं मधुरं स्निग्धं श्लेष्मकुद्रक्तपित्तजित् । वलास्रवर्धनं वृष्यं श्रमनं शोधनं दधि ॥ २४९ ॥ उष्ट्रीदधि ( दुग्धजम् ) ॥ ५९॥ गुणाः-विपाके कटु सक्षारमम्लं स्यादौष्ट्रकं दधि । वातमांसि कुष्ठानि कृमीन्हन्त्युदराणि च ॥ १९४ ॥ राजनिघण्टौ क्षीरादिः पञ्चदशो वर्गःऔष्ट्रमशांसि कुष्ठानि कृमिशूलोदराणि च । विहन्ति कटुकं स्वादु किंचिदम्लरसं दधि ॥ २५०॥ अश्चादधि (दुग्धजम् ) ॥६० ॥ गुणाः-दीपनीयमचक्षुष्यं वातलं दधि वाडवम् । रूक्षमुष्णं कषायं च कफमूत्रापहं च तत् ॥ १९५॥ राजनिघण्टौ क्षीरादिः पञ्चदशो वर्गःअश्वादधि स्यान्मधुरं कषायं कफातिमूर्छामयहारि रूक्षम् । वाताल्पदं दीपनकारि नेत्रदोषापहं तत्कथितं पृथिव्याम् ॥ २५१॥ १ ज, ट. बल्यं। For Private and Personal Use Only
SR No.020593
Book TitleRajnighantu Ssahito Dhanvantariya Nighantu
Original Sutra AuthorN/A
AuthorHarinarayan Aapte
PublisherAnandashram Mudranalay
Publication Year
Total Pages619
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy