SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६ षष्ठो वर्गः ] राजनिघण्दुसहितः। २२३ उम्पास उम्पिकाशालिर्मधुरा गुरुतण्डुला । बहुशूका मुगन्धाढ्या तारुण्यजनवल्लभा ॥११८॥ गुणाः-उम्पिका मधुरा स्निग्धा सुगन्धा च कषायका । पित्तश्लेष्महरा रूक्षा शम्पिकाऽनिलनाशनी ॥ ११९ ॥ पक्षिकः पक्षिनावल्यः पक्षिराजो मुनिप्रियः । स्थूलतण्डुलसंभूता गन्धो बहलगन्धकृत् ॥ १२०॥ शालिविशेषाः-दग्धायामवनौ जाताः शालिनो लघुपाकिनः । किंचित्सतिक्ता मधुराः पाचना बलवर्धनाः ॥ १२१ ॥ केदारा मधुरा वृष्या बल्याः पित्तविवर्धनाः । ईषत्कषायाल्पमला गुरवः कफनाशनाः ॥ १२२ ॥ शालयो ये छिन्नरुहा रूक्षास्ते बद्धवर्चसः । रोप्यानिरोप्या लघवः शीघ्रपाका गुणोत्तराः ॥ १२३ ॥ विदाहिनो दोषहरा बल्या मूत्रविवर्धनाः)॥ (१७) अक्षता ( यवः ) अक्षतास्तीक्ष्णशकाश्च यवाश्चैव तु नामतः । गुणाः-रुक्षः शीतो गुरुः स्वादुः सरो विवातकृयवः ॥ ७८॥ वृष्यः स्थैर्यकरो मूत्रमेदःपित्तकफाञ्जयेत् । पीनसश्वासकासोरुस्तम्भकण्ठत्वगामयान् ॥ ७९ ॥ राजनिघण्टौ शाल्यादिः षोडशो वर्गःयवस्तु मेध्यः सितशूकसंज्ञो दिव्योऽक्षतः कञ्चकिधान्यराजौ । स्यात्तीक्ष्णशूकस्तुरगप्रियश्च सक्तुहयेष्टश्च पवित्रधान्यम् ॥ १२४ ॥ गुणाः—यवः कषायो मधुरः सुशीतलः प्रमेहजित्तिक्तकफापहारकः। अशूकमण्डस्तु यवो बलप्रदो वृष्यश्च नृणां बहुवीर्यपुष्टिदः ॥ १२५ ॥ राजनिघण्टौ शाल्यादिः षोडशो वर्ग: वेणजः ( अक्षताविशेषः ) ॥५॥ वेणुजो वेणुबीजश्च वंशजो वंशतण्डुलः । वंशधान्यं च वंशाहो वेणुवंशद्विधायवः ॥ १२६ ॥ गुणाः- शीतः कषायो मधुरस्तु रूक्षो मेहक्रिमिश्लेष्मविषापहश्च । पुष्टिं च वीर्य च बलं च दत्ते पित्तापहो वेणुयवः प्रशस्तः ॥ १२७ ॥ (१८) वासन्ताः ( मुगाः ) वासन्ताः कृष्णमुद्गाश्च शारदा हरितास्तथा । मुद्गानां नामतश्चोक्ताः सूपश्रेष्ठा रसोत्तमाः ।। ८०॥ १ ज. ट. °णुर्वशद्विजाजवाः । For Private and Personal Use Only
SR No.020593
Book TitleRajnighantu Ssahito Dhanvantariya Nighantu
Original Sutra AuthorN/A
AuthorHarinarayan Aapte
PublisherAnandashram Mudranalay
Publication Year
Total Pages619
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy