SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २१५ ६ पठो वर्गः] राजनिघण्टुसहितः। त्रिदोपद्वंद्वदोषोत्थं ज्वरं हरति सेवितम् ॥ ४२ ॥ ग्रन्थान्तरे-हिङ्गुलः सर्वदोपनो दीपनोऽतिरसायनः । सर्वरोगहरो वृष्यो जारणे लोहमारणे ॥४३॥ __राजनिघण्टौ सुवर्णादित्रयोदशो वर्गः हिङ्गलं बर्वरं रक्तं सुरङ्ग सगरं स्मृतम् । रञ्जनं दरदं म्लेच्छं चित्राङ्गं चूर्णपारदम् ॥ ४७ ॥ अन्यच्च मारकं चैव मणिरागं रसोद्भवम् । रज्जकं रसगर्भ च वाणभूसंख्यसंमतम् ॥ ४८ ॥ गुणाः-हिङ्गुलं मधुरं तिक्तमुष्णवातकफापहम् । त्रिदोपद्वंद्वदोषोत्थं ज्वरं हरति सेवितम् ॥ ४९ ॥ (१०) 'वैक्रान्तम् । वैक्रान्तं कान्तसंज्ञं स्यादत्रो भूमिरजस्तथा । गोनसं क्षुद्रकुलिशं जीर्णवत्रं तु वज्रकम् ॥ ४४ ॥ तत्तु सप्तविधं प्रोक्तमनेककर्मकारकम् । षट्कोणं तीक्ष्णधारं च स्वच्छमिन्द्रधनुश्छवि ॥ ४५ ॥ तदुत्तमं तु वैक्रान्तं हितं प्रोक्तं रसायने । गुणाः-मेहखाण्ड्यांशधिक्यक्षयग्रहणिकासजित् । वृष्यो रसायनो बल्यो वैक्रान्तो वह्निदीपनः ॥ ४६ ॥ आयुष्पदश्च बलवर्णकरोऽतिवृष्यः प्रज्ञाप्रदः सकलदोपगणापहारी । दीप्ताग्निकृत्पविसमानगुणस्तरस्वी वैक्रान्तकः खलु वपुबललोहकारी ॥४७॥ दोषाः-अशुद्धवजं कुरुपाण्डुतापहृत्पार्श्वपीडारुचिकुष्टकारि । शुद्धं मृतं सौख्यवलप्रदं च वैक्रान्तभस्मापि रसायनं च ॥ १८ ॥ ___ राजनिघण्टौ सुवर्णादित्रयोदशो वर्गः-- वैक्रान्तं चैव विक्रान्तं नीचवज्रं कुवज्रकम् । गोनासः क्षुद्रकुलिशं चूर्णवज्रं च गोनसः ॥५०॥ ___ + वैक्रान्तभेदशोधनमारणानि-अष्टास्रश्चाष्टफलकः षट्कोणो ममृणो गुरुः। शुद्धो मिश्रितवगैश्च युक्तो वैक्रान्त उच्यते ॥ श्वेताः पीता रक्तनीलाम्ते स्युः पारावतप्रभाः। केकिकण्ठप्रभाश्चैव तथा मरकतप्रभाः ॥ श्यामलः कृष्णवर्णश्च कर्बुरश्चाष्टधा हि सः । __ अस्य शोधनम्-वक्रान्तकाः स्युस्त्रिदिनं विशुद्धाः संस्वेदिताः क्षारपटूनि दत्त्वा । आम्लेषु मूत्रेषु कुलित्थरम्भानीरेऽथवा कोद्रववारिपक्वाः ॥ वक्रान्तमारणम्--कुलित्थक्वाथसंस्विन्नो वैक्रान्तः परिशुष्यति । म्रियतेऽष्टपुटैर्गन्धनिम्बुकोद्रवसंयुतः ॥ वैकान्तेषु च सर्वेषु हयमत्रं विनिक्षिपेत् । यो नैपुण्येन वा कुर्याद्र्वं दत्त्वा पुटं लघु । भस्मीभूतं तु वैकान्तं वज्रस्थाने नियोजयेत् ॥ भस्मत्वं समुपागतो विकृतको हेना मृतेनान्वितः पादांशेन कणाज्यवल्लसहितो गुञ्जोन्मितः सेवितः । यक्ष्माणं जरणं च पाण्डुगुदजं श्वासं च कासामयं दुष्टां च ग्रहणीमुरःक्षतमुखानोगाञ्जयेद्देहकृत् ॥ १८. 'मुष्णं वा । For Private and Personal Use Only
SR No.020593
Book TitleRajnighantu Ssahito Dhanvantariya Nighantu
Original Sutra AuthorN/A
AuthorHarinarayan Aapte
PublisherAnandashram Mudranalay
Publication Year
Total Pages619
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy